________________ // 299 // * // 300 // // 301 // / / 302 // / / 303 / / - // 304 // भवंश्चाप्यात्मनो यस्मादन्यतश्चित्रशक्तिकात् / कर्मादेर भिधानादेर्नान्यथातिप्रसङ्गतः माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया / तत्त्वं निरूपणीयं स्यात्कालातीतोऽप्यदोऽब्रवीत् / अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् / . अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः / तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् अनादिशुद्ध इत्यादिर्यश्च भेदोऽस्य कल्प्यते / तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः / प्रायो विरोधतश्चैव फलाभेदाच्च भावतः अविद्याक्लेशकर्मादि यतश्च भवकारणम् / ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा / गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् / सामान्यमनुमानस्य यतश्च विषयो मतः साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् / तथाभिधानभेदात्तु भेदः कुचितिकाग्रहः विपश्चितां न युक्तोऽयमैदम्पर्यप्रिया हि ते। यथोक्तास्तत्पुनश्चारु हन्तात्रापि निरूप्यताम् उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् / / अनुग्रहात्प्रवृत्तेश्च तथाद्धाभेदतः स्थितम् / // 305 // // 306 // // 307 // / / 308 // // 309 // // 310 // 238