________________ // 71 // / / 72 // // 73 // // 74 // // 75 // // 76 // सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः / दुरापं किन्त्वदोऽपीह भवाब्धौ सुष्ठु देहिनाम् चरमे पुद्गलावर्ते यतो यः शुक्लपाक्षिकः। भिन्नग्नन्थिश्चरित्री च तस्यैवैतदुदाहृतम् प्रदीर्घभवसद्भावान्मालिन्यातिशयात्तथा / अतत्त्वाभिनिवेशाच्च नान्येष्वन्यस्य जातुचित् अनादिरेष संसारो नानागतिसमाश्रयः / पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः सर्वेषामेव सत्त्वानां तत्स्वाभाव्यनियोगतः / नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम् यादृच्छिकं न यत्कार्यं कदाचिज्जायते क्वचित् / सत्त्वपुद्गलयोगश्च तथा कार्यमिति स्थितम् चित्रस्यास्य तथा भावे तत्स्वाभाव्याहते परः / न कश्चिद्धेतुरेवं च तदेव हि तथेष्यताम् / स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् / तदन्यवादाभावश्चेन्न तदन्यानपोहनात् कालादिसचिवश्चायमिष्ट एव महात्मभिः / सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते तथात्मपरिणामात्तु कर्मबन्धस्ततोऽपि च / तथा दुःखादि कालेन तत्स्वभावादृते कथम् वृथा कालादिवादश्चेन तद्बीजस्य भावतः / अकिञ्चित्करमेतच्चेन स्वभावोपयोगतः सामग्र्याः कार्यहेतुत्वं तदन्याभावतोऽपि हि। तदभावादिति ज्ञेयं कालादीनां नियोगतः . // 77 // // 78 // // 79 // // 80 // // 81 // // 82 // 219