________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 / / नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया। किं सम्यग् रूपमादत्ते कदाचिद्मन्दलोचनः अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते / चेष्टते चेष्टसिद्ध्यर्थं वृत्त्यैवायं तथा हिते यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः / आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः अपूर्वासन्नभावेन व्यभिचारवियोगतः / तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् / अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः तारायां तु मनाक्स्पष्टं नियमश्च तथाविधः / अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा .. भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योगकथास्वलम्। . शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः / योगिनां नियमादेव तदनुग्रहधीयुतः लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः। क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा भयं नातीव भवजं कृत्यहानिर्न चोचिते। . तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता / तुल्ये निजे तु विकले संत्रासो द्वेषवर्जितः दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् / चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ? 190 // 42 // // 43 // // 44 // // 45 // // 46 // // 47 //