________________ // 257 // संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरम् / . उपमाऽभावतो व्यक्तमभिधातुं न शक्यते अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् / विरहात्तेन पापस्य भवन्तु सुखिनो जनाः // 258 // // 1 // // 2 // // 3 // ॥षोडशकप्रकरणम् // 1 - धर्मपरीक्षा प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् / लिङ्गादिभेदतः खलु वक्ष्ये किञ्चित् समासेन बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् / / आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः / ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः . बाह्यं लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः / धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् . बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि / कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य / सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत् तच्च / सदनुष्ठानं प्रोक्तं कार्ये हेतूपचारेण परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात् / / अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया / // 4 // // 6 // // 7 // // 8 // CS