________________ (3) चन्दनकर्पूरागुरुशाला, केतकजाती चम्पकमाला। नन्दतिवर्या तेऽङ्गसपर्या, सम्भवनेतः कस्य न चेतः॥ 3 // चम्पकमाला // (4) उपेन्द्रवज्रायुधवामदेवा- दयोजिता येन नृदेवदेवाः। . स्मृतेऽपि यन्नामनि सोपि कामो, मृयेत नन्द्यादभिनन्दनोऽयम्॥ 4 // उपेन्द्रवज्रा॥ (5) द्रुतविलम्बितगीतिरसो लस-च्चरणसञ्चरणातिमनोहरम्। सुरगिरौ सुमतेजिनि( न )मज्जने विदधिरे विवुधा नवनर्त्तनम्॥ 5 // द्रुतविलम्बित // (6) जगतीहितार्थरचनाभिनदितः, ससुरासुरेन्द्रमनुजेन्द्रवन्दितः। नमतां मतां जनमनोभिनन्दिनीं वितनोतु ऋद्धिमरुणप्रभुप्रभुः॥६॥ नन्दिनी॥ (7) सिंहोद्धता अपि जगजनताजयेन, मोहब्रुधा मदनलोभमदादयोऽमी। गर्जन्ति तावदतिरंगभरेण याव-दन्तः सुपार्श्वसरभस्य न ते स्मरन्ति॥६॥ सिंहोद्धता // (8) हिमकरहिमनीरक्षीरडिण्डीरपिण्ड-प्रवरकिरणमालामालिनी यस्य मूर्तिः सुकृतदलकसारैनिर्मितेवा च भाति, प्रथयतु स सुखानि स्वामिचन्द्रप्रभो! मे॥ 8 // मालिनी॥ (9) सुविधिजिन्नस्तनोतु मम मङ्गलानि नित्यं, मदनकरीन्द्रकुम्भतटणटनो ससिंहः। तरलन्तरैरपीक्षणसरैर्यदीयचेतः, सरसिरूहमनाग्न बिभिदे धुवाणिनीभिः॥ 9 // वाणिनी॥ (10) श्रेयोलक्ष्मी वितरतु स वः शीतलस्तीर्थनाथो, यस्मिन्गर्भे स्थितवति करस्पर्शमात्रेण मातुः। दाहोत्साहा जनकवपुषोऽगुः क्रिय( कियद् ?) वा मृगेन्दै मन्दाक्रान्ता अपि किमु मृगा न म्रियन्ते क्षणेन॥१०॥ मन्दाक्रान्ता // (11) श्रीश्रेयांसो दिशतु मम महानन्दमन्दोदयर्द्धि, वाणीं यस्यानुपममधुरिमोद्गारशृङ्गारसाराम्। पायं पायं मदनदहनसंहारिणः सच्चकोराः, सञ्जायन्तेऽमृतरसभरितां तां यथा चन्द्रलेखाम्॥ 11 // चन्द्रलेखा। (12) आस्थानं फणिनां फणेषु ललितं बभ्रोरुरभ्रस्य च, .. घ्राणं व्याघ्रविशालवस्त्रविवरे जृम्भासरं बिभ्रति। यत्रानन्दकरं करेणुकरिणां शार्दूलविक्रीडितं तां श्रीधर्मसभां श्रयामि सततं श्रीवासुपूज्यप्रभुः( भोः ) // 12 // शार्दूलविक्रीडित // (13) विकलाधीश्वरनन्दनंदजगदानन्देन्दिरासुन्दरं, त्वयि भूमीवलयं विहारविधिभिः पूतान्तरं कुर्वति। सकलोपद्रवडम्बरा अपि खराः प्रापुः प्रणाशं क्षणा दथवा श्वैरविहारिणी व नु हरौ मत्तेभविक्रीडितम्॥१३॥ मत्तेभविक्रीडितं॥ (14) जन्मस्नात्रं पवित्रं सुरगिरिशिखरे यस्य कर्तुं महद्धा, त्रैलोक्याधीशलोके कृतमहसि परालकृती: सर्वनारीः। दृष्ट्वा नक्षत्रदम्भादपि गगनरमामौक्तिकस्रग्धराभृ त्तं पञ्चानन्तकेन्द्रं भजत भवभृतो भावतोऽनन्तदेवम्॥ 14 // स्रग्धरा / / लेख संग्रह