________________ त्वत्पादपद्मनखदीधितिकुंकुमेन चित्रीकृतः प्रणमतां स्वललाटपट्टः। येषां त एव सुतरां शिवसौख्यभाजो, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः।। 41 / / भग्नेव कर्मनिगडं जिन लोहरकारवाङ्मुद्रेण भव गुप्तिगृहाप्तवासाः। * कर्मावलीनिगडिता अपि भक्तसत्वा, सद्य स्वयं विगतबंधभया भवन्ति / / 42 / / रोषो दिवेति सहगामपहाय माम-सौ संपदाभिरमते सहमत्सपल्या। द्राक्चक्रवालमगमद्विदेव तस्य यस्तावकं स्तवमिमं मतिमानधीते / / 43 / / तस्यांगणे सुरतरुस्सुरधेनुरंही, चिन्तामणिः करतलं निजमन्दिरञ्च। यः श्रीयुगादिजिन देवमलं स्तवीति, तं मानतुङ्गमवशा समुपैति लक्ष्मीश्च / / 44 / / श्रीमन्मुनीद्रवरवाचक-भानुचन्द्र! पादाब्जसेवक-विवेकनिशाकरेण। भक्तामरस्तवनतुर्यपदसमस्याकाव्यै स्तुतः प्रथमतीर्थपति गृहीत्वा।। 45 / / // इति भक्तामर-समस्या-स्तवन श्रीमदादीश्वरो वर्णितः।। [अनुसंधान अंक-५०] 000 लेख संग्रह 351