________________ 148 परिशिष्टम् 2-G,H कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाकायलक्षणानाम् 'अप्रशस्तानाम्' अशोभनानां प्रतिक्रमणम्, ते च प्रतिक्रान्तव्या इति गाथार्थः / / 1250 / / G उत्तरा० 29/11 [चतु, गा० 5 व.] पडिक्कमणेणं मंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहिय वयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिए विहरइ / / 11 / / एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेषु स्खलितसम्भवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह - प्रतिक्रमणेन अपराधेभ्यः प्रतीपनिवर्त्तनात्मकेन व्रतानां प्राणातिपातनिवृत्त्यादीनां छिद्राणि - अतिचाररूपाणि विवराणि व्रतच्छिद्राणि पिदघाति स्थगयति अपनयतीति यावत् / तथाविधश्च कं गुणमवाप्नोतीत्याहपिहितव्रतच्छिद्रः पुनर्जीवः निरुद्धाश्रवः सर्वथा हिंसाद्याश्रवाणां निरुद्धत्वात्, अत एवासबलं सबलस्थानैरकर्बुरीकृतं चरित्रं यस्य स तथा, अष्टसु प्रवचनमातृषु उक्तरूपासु उपयुक्तः अवधानवान् तत एवाविद्यमानं पृथक्त्वं प्रस्तावात्संयमोद्योगेभ्यो वियुक्तस्वरूपं यस्यासौ अपृथक्त्वः सदा संयमयोगवान्, (अ) प्रमत्तो वा पाठान्तरात्; तथा सुप्रणिहितः सुष्ठु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठु प्रणिहितानि असन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः विहरति संयमाध्वनि याति / / 11 / / H आव० नि० 1424 [चतु० गा. 6 वृ.] अव० एवं तावद् द्रव्यवणस्तच्चिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते मुलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स / अवराहसल्लपभवो भाववणो होइ नायव्यो / / आव०हा०कृ० मुलुत्तरगुणस्वरूवस्स' गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाः-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधाः-गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधो भावव्रणो भवति ज्ञातव्य इति गाथार्थः / /