________________ खण्ड-३ 147 + विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह-मानस्य अहङ्कारस्य भञ्जना विनाशः, तदर्थः, मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भगवद्भिर्विनयमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्वं श्रुतग्रहणम्, 'अकिरियत्ति पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः तहारूवं णं भंते ! समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणस्स किंफला वंदणपज्जुवासणया ?, गोयमा ! सवणफला, सवणे णाणफले, णाणे विण्णाणफले, विण्णाणे पच्चक्खाणफले, पच्चक्खाणे संजमफले, संजमे अणण्हयफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफला" / तथा वाचकमुखेनाप्युक्तम् 'विनयफलं शुश्रूषी गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः / / 1 / / संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् / तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् / / 2 / / योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः / तस्मात्कल्याणानां सर्वेषां भाजनं विनयः / / 3 / / ' ____ इति गाथार्थः / / 1215 / / Fआव०नि० 1250 [चतु. गा० 5 वृ.] . मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं / . ...... कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं / / 1250 / / आवहावृ०मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैमिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव असंयमे असंयमविषये प्रतिक्रमणम्, असंयमः-प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणम्,