________________ खण्ड-२ उज्झितः परिहतो यैस्ते उज्झितगृहगृहिणीसङ्गसुखास्वादा निष्परिग्रहा निर्जिगीषवश्चेत्यर्थः / न कलितो न गणितौ नाश्रितौ हर्षविषादी प्रमोदवैमनस्ये यैस्ते तथा समभावव्यवस्थितत्वात् / 'विहू असोआ' इति पाठान्तरम्- विधूतानि श्रोतांसि आश्रवद्वाराणि यैर्यदिवा विधूतः क्षिप्तः शोकश्चित्तखेदो यैस्ते तथा विधूतासंयमस्थाना गतशोका वेत्यर्थः / ते साधवः शरणं स्युः / / 37 / / हिंसाइदोससुन्ना कयकारुन्ना सयंभुरूप्पना / अजराऽमरपहखुन्ना साहू सरणं सुकयपुन्ना / / 38 / / सोम० हिंसा आदिर्येषां ते हिंसादयः, ते च ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहार स्त्रीसेवापरिग्रहादीनां ग्रहः / हिंसादिदोषैः शून्याः तैविरहिता इत्यर्थः। तथा कृतं विहितं कारुण्यं दुःखप्रहाणेच्छा सर्वजीवेषु यैस्ते तथा सर्वजीवेषु कृपार्द्रचेतस इत्यर्थः / तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथावस्थितत्वेन रोचनं मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः, प्रज्ञानं प्रज्ञा बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवतीति स्वयम्भूः, स्वयम्भूवौ रुक्प्रज्ञे सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञाः। यदि वा स्वयम्भुरूचा स्वयम्भूतसम्यक्त्वेन क्षायिकादिना पूर्णाः, दूरीकृतमिथ्यात्वा इत्यर्थः। 'पुन्ना' इति पाठे इयं व्याख्या / यद्वा स्वयम्भूशब्देन स्वयम्भूरमणः समुद्र उच्यते तत्तुल्ये विस्तीर्णे इत्यर्थः, रुक्प्रज्ञे येषां ते तथा / अथवा 'स्वयंभुरूप्पन्ना' इति पाठे स्वयम्भरा आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना व्यवस्थिताः स्वयम्भरोत्पन्नाः / तथा न विद्येते जरामरणे यत्र तदजरामरं निर्वाणं तस्य. पथो मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्यर्थः, तत्र क्षुण्णाः निपुणाः, सम्यक् तस्य वेदिन इत्यर्थः / क्षुण्णः पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः। 'अजरामरबहुखुन्ना' इति पाठे तु अजरामरे निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः सम्यग्मोक्षस्वरूपप्ररूपका इत्यर्थः / ते साधवः शरणं भवन्तु। पुनः किम्भूताः ? सुष्ठु अतिशयेन कृतं पुण्यं चारित्रप्राप्तिलक्षणमेष्यद्भवयोग्यं स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, सुकृतैः तपःप्रभृतिभिर्वा पूर्णाः भृताः सञ्चितप्रभूततपस इत्यर्थः / / 38 / / . गुण हिंसादिदोषैः शून्यास्तैविरहिता इत्यर्थः। कृतं विहितं कारुण्यं दुःखप्रहाणेच्छा