________________ अवचूरिवृत्तिसहितं चतुःशरणम् विनाऽपि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनाद्यालम्बनगतिपरिणामकुशलाः / तथा वापीनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपनिपुणा जङ्घाचारणा इति / 'विउव्वि'त्ति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्घयेयानपि द्वीपसमुद्रान् पूरयन्ति, जम्बूद्वीपं तु स्त्र्याद्यन्यतररूपैर्बिभ्रति / 'पयाणुसारि 'त्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितपदमनुसरन्ति पूरयन्ति ते पदानुसारिणः / इह चोपलक्षणत्वादामोषध्यादिलब्धिसम्पन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु / / 34 / / गुण० चीर्णग्रन्थिपर्णकादिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्यार्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या' गोः सम्बन्धि यत्क्षीरं तदिह गृह्यते, तदिव यस्य वचनरसमाधुर्यमाश्रवति मुञ्चतीति स क्षीराश्रवः। मधुशर्करादिमधुरद्रव्यं तद्रसतुल्यं यस्य वचनं स मध्वाश्रवः। उपलक्षणत्वात्सर्पिराश्रवश्च / ये सर्वैः शरीरावयवैः श्रृण्वन्ति जानन्ति च, भिन्ना वा चक्रवर्तिस्कन्धावारबहलकोलाहलजशब्दसन्दोहान्, अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक्पृथक् व्यवस्थापयन्तीति संभिन्नश्रोतसः। नीरन्ध्रधान्यकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः। अतिशयचरणाच्चारणास्ते च द्विधा जङ्घाचारणा विद्याचारणाश्च / 'विउव्वि'त्ति वैक्रियलब्धिमन्तः साधवस्तेषां च नानारूपैरसङ्ख्येयद्वीपसमुद्राभरणविषया वैक्रियशक्तिर्भवति, जम्बूद्वीपं . * पुत्र्यादिरूपैर्बिभ्रत्यपि / ये पूर्वापरपदानुसारतत्रुटितपदमनुसरन्ति पूरयन्तीत्यर्थस्ते पदानुसारिणो वज्रस्वामिन इव / इह च येऽतिशयर्द्धिसम्पन्नाः साधवो नोक्तास्तेऽप्युपलक्षणत्वाद् ज्ञेयाः / एतेन ये जिनकल्पिकादयः पदानुसारिपर्यन्ताः साधवस्ते शरणं भवन्तु / / 34 / / सोम० अथ सर्वसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाहगुण० अथ साधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह उज्झियवइर-विरोहा निश्चमदोहा पसंतमुहसोहा / अभिमयगुणसंदोहा हयमोहा साहुणो सरणं / / 35 / / सोम० वैरं प्रभूतकालजं श्रीवीरजिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणकपिलस्येव।