________________ खण्ड-२ हारिकाश्च पारिहारिकत्वम्, कल्पस्थस्तथैवास्ते यावद् द्वितीयषण्मासाः, ततो द्वितीयषण्मासानन्तरं कल्पस्थः तपः करोति, तेषां व्यूढतपसामष्टानां मध्यादेकः कल्पस्थो भवति, सप्तानुपारिहारिका भवन्ति, अष्टावपि षण्मासं यावत्प्रतिदिनाचाम्लभोजिनः, अष्टादशभिर्मासैः पूर्णकल्पो भवति, कल्पसमाप्तौ पुनस्तमेव वा जिनकल्पं. वा प्रतिपद्यन्ते गच्छवासमायान्ति, प्रतिपत्तिश्च जिनसमीपे सेवकपाधै वा, एते च सहस्रारान्तमेव यान्ति / / 33 / / सोम० विशेषलब्धिसम्पन्नान् साधूनाह खीरासव महुआसव संभिन्नस्सोय कुट्ठबुद्धी य / चारण-वेउव्वि-पयाणुसारिणो साहुणो सरणं / / 34 / / सोम० 'खीरासव'त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषस्या चक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सम्बन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवति मुञ्चतीति क्षीराश्रवाः / मधुशर्करादि मधुरद्रव्यं तद्रसतुल्यं येषां वचनं ते मध्वाश्रवाः। उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धिघृतरसतुल्यवचनाः। तथा 'संभिन्नस्सोय'त्ति ये सर्वैः शरीरावयवैः श्रृण्वन्ति जानन्ति च, चक्रवर्तिस्कन्धावारसत्कमनुष्यतिर्यग्कोलाहलशब्दसन्दोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्तीति वा सम्भिन्नश्रोतसः। 'कुट्ठबुद्धीय'त्ति नीरन्ध्रकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः / 'चारण'त्ति अतिशयचरणाञ्चारणाः, ते द्विधा जङ्घाचारणा विद्याचारणाश्च / तत्राद्या एकोत्पातेन रुचकवरद्वीपं यान्ति, ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया हासभवनात्। विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति; ऊर्ध्वं तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डुकवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात् / तथाऽन्येऽपि बहुप्रकाराश्चारणाः साधवः भवन्ति, तद्यथा-आकाशगामिनः, पर्यङ्कावस्थानिषण्णाः, कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रम