________________ Mo | तुभ्यं समर्पयामि // AM यै र्जिनाज्ञाजीविमहापुरुषैर्मी जिनाज्ञाया महत्त्वं बोधयित्वा प्रकटीचकार मद्धृदि जिनाज्ञाममत्वम्, यैः पुण्यपुरुषै न स्वकीयमतानुयाय्यपित्वहमकारि जिनाज्ञानुयायी, यैश्च युगपुरुषै र्गिस्थदेशनापद्धते र्ज्ञानं वरदानञ्च मां दत्त्वा मे महदुपकृतम्, मातृ-पितृ-गुरुभ्योऽप्यधिकतरं मद्धृदये यैः स्थानं मानञ्च सम्प्राप्तमेतादृशामैदंयुगीनयुगप्रधानकल्प-जैनशासनशिरोमणि-तपागच्छगगनदिनमणिदीक्षायुगप्रवर्तक-परमाराध्यपादपद्मानां पूज्यवर्याणांश्रीमद्विजय-रामचन्द्रसूरीश्वराणां बहुशास्त्रसंस्पर्शसम्पूतकरारविन्दे तद्दीक्षाशताब्दीपर्वोत्सवे लघुहरिभद्र-न्यायविशारद-महामहोपाध्याय श्रीयशोविजयगणिवरविरचितं 'चक्षुरप्राप्यकारितावाद' संज्ञितं ग्रन्थपुष्पमिदं परमोच्चश्रद्धापुरस्सरं समर्पयामि -रामबाल-पुण्यपाल: