________________ विभाग-६ 203 आदर्शोदकयोः // 50 // आदर्शादाविव प्रसादो रुपविशेषः स्वच्छतयामुखादिस्वरुपोपलब्धिवत् तेषां स्फटिकाद्यन्तरितानां चक्षुरादिभिः प्राप्तिः कञ्चिद् प्रतिबधन्धकं किचिच्च नतथे (अपूर्णादर्शः) * // न्यायसूत्रे विश्वनाथवृत्तिः // अथेन्द्रियं परीक्षणीयम् / तत्र लक्षणसूत्रोक्तभौतिकत्वमिन्द्रियाणां परीक्षितुं संशयमाह कृष्णसारे चक्षुर्गोलके सति घटाधुपलम्भाद्गोलकस्येन्द्रियत्वमिति बौद्धाः / व्यतिरिच्य विषयं प्राप्योपलम्भादुपलम्भजननाद्गोलकातिरिक्तानीत्यपरे / तथेन्द्रियाणि गोलकातिरिक्तानि न वेति संशयः / गोलकातिरिक्तानीति नैयायिकादयः / तत्राप्यभौतिकान्याहङ्कारिकाणीति साङ्ख्याः / भौतिकानीत्यपरे // 33 // ___ तत्र साङ्ख्यमतेन बौद्धमतमुदस्यन्नाहगोलकं नेन्द्रियम्, अप्राप्यकारित्वेऽतिप्रसङ्गात् / इत्थं च गोलकातिरिक्तं भौतिकमिति वाच्यम् / तदप्यसंगतम् / चक्षुषा हि न्यूनपरिमाणं महत्परिमाणं च गृह्यते / न च न्यूनेन महतो व्यापनं संभवति / न वाऽव्याप्यग्रहणमतोऽभौतिकानीन्द्रियाण्याहङ्कारिकाणीति // 34 // ___ साङ्ख्यं निरस्यतिरश्मिर्गोलकावच्छिन्नं तेजः / तेनार्थस्य * घटादेर्यः सन्निकर्षविशेषः संयोगविशेषस्तस्मान्महदण्वोर्ग्रहणमुपपद्यते / भौतिकेऽपि प्रदीपादौ महदणुप्रकाशकत्वं दृष्टम् / अभौतिकत्वे तु पुरः पश्चाद्वर्तिनां सर्वेषामेव ग्रहः स्यात् / / 35 // तैजसे चक्षुष्यनुपलब्धिबाधं बौद्धः शङ्कते रश्म्यर्थसंनिकर्षो न हेतुर्गोलकातिरिक्तस्य रश्मेरनुपलब्धेः // 36 // समाधत्ते रूपोपलब्धेः सकरणत्वादिनाऽनुमीयमानस्य प्रत्यक्षतोऽनुपलब्धि भावनिर्णायिकेत्यर्थः // 37 // ____ कथं तर्हि नोपलम्भ इत्यत आह-द्रव्यस्य धर्मभेदो महत्त्वादिः / गुणस्य धर्मभेद उद्भूतत्वम् / तदधीनत्वात्प्रत्यक्षस्य / द्रव्यमात्र उपलब्धेर्न नियमः / यत्रोद्भूतरूपमहत्त्वादिकं तस्य प्रत्यक्षं तदभावाच्चक्षुरादेरप्रत्यक्षम् / चक्षुरादावुद्भूतरूपमेव न कुत इत्याशङ्कायां भाष्यम्-अदृष्टविशेषाधीन इन्द्रियाणां व्यूहो रचनाविशेष उपभोगसाधनमिति सूत्रमेवेदमिति केचित् // 38 // महतो रूपवतोऽनुपलब्धौ दृष्टान्तमाहमहतो रूपवतश्चोल्काप्रकाशस्य सौरालोकेनाभिभवान्मध्यन्दिनेऽनुपलब्धिवदनुद्भूतरूपवत्वाच्चक्षुषोऽप्यनुपलम्भः संभवतीति भावः // 39 // नन्वेवं घटादेरपि रश्मिः स्यात्सौरालोकेनाभिभवात्पुनरग्रह इत्यत्राऽऽह नेत्यस्य घटादौ रश्मिरिति शेषः // 40 //