________________ भाष्यगाथा-२३-२८] पच्चक्खितरं च तं दुविहं / "इतरं" ति परोक्खं / आह-प्रत्यक्ष-परोक्षयोः कः प्रतिविशेषः ? उच्यते जीवो अक्खो तं पड़, जं वदति तं तु होति पच्चक्खं / परतो पुण अक्खस्सा, वटुंतं होति पारुक्खं // 25 // "जीवो अक्खो०" गाधा / “अक्ख" इति जीवस्याख्या, तं प्रति वर्तत इति प्रत्यक्षं / ज्ञानेन जीवो तत्त्वान्युपलभत' इत्यर्थः / परतो निमित्तादित्यर्थः, अक्षस्य जीवस्य वर्तमानमर्थग्राहकत्वं परोक्षमुच्यते / एवं किं सव्वेसि ? भण्णइ केसिंचि इंदियाइं, अक्खाइं तदुवलद्धिपच्चक्खं / तं तु ण जुज्जइ जम्हा, अग्गाहगर्मिदियं विसए // 26 // "केसिंच इंदियाइं०" गाधा / केषाञ्चित् वैशेषिकादीनां चक्षुरादीनि इन्द्रियाणि अक्षाणि, यत्तैरुपलभ्यते तत् प्रत्यक्षं / तच्च न युज्यते / कस्माद् ? यस्मादग्राहकमिन्द्रियं विषये। अस्य व्याख्या ण वि इंदियाइँ उवलद्धिमंति विगतेसु विसयसंभरणा। जह गेहगवक्खाई, जो अणुसरिया स उवलद्धा // 27 // "ण वि इंदियाइं०" गाधा / न त्विद्रियाण्युपलब्धिमंति, कस्माद् ? विगतेष्वपि इन्द्रियेषु तदुपलब्धानुस्मरणात् / यथा-गेह-गवाक्षाणि / योऽनुसरिता, आरोढा इत्यर्थः / स उपलब्धाऽर्थानां, न गेह-गवाक्षाणि / गवाक्षकविगमेऽपि च तदुपलब्धानर्थाननुस्मरत्येवासौ। एवं गृहवत् शरीरं, अनुसरितृवदात्मा, गवाक्षकानि चेन्द्रियाणि / किञ्च 'लैङ्गिकं च तद् ज्ञानं यदिन्द्रियैरुपलभ्यते' / कथमित्यत्रोच्यते धूमनिमित्तं णाणं, अग्गिम्मि लिंगियं जहा होति / तह इंदियाइलिंगं, तं णाणं लिंगियं न कहं ? // 28 // "धूमनिमित्तं०" गाधा / इह हि यथा धूमं दृष्ट्वाऽग्निरुन्मीयते 2, तथा लिंगभूतैरिंद्रियैः शब्दाद्यर्थज्ञानं जायते / यदीन्द्रियाणि न स्युः, ततो न विजानीयादर्थम् / यस्मादेवं तस्मात् तत् ज्ञानं कथं लैङ्गिकं न भवति ? / अन्यश्चायं विशेषः / परोक्षदृष्टोऽर्थः तथा वा स्यादन्यथा वा ? यत्तु त्रिप्रकारेणापि प्रत्यक्षेणाऽवधिज्ञानादिना दृश्यते तत् तथैव भवति, नान्यथा। किञ्च 1. ०वो नान्येनोप० पा० 2, पू० 2 / 2. ०रनुमीयते पू० 2 /