________________ भाष्यगाथा-३२४-३३१] "हवति०" गाधा / एषामेव पूर्वोद्दिष्टानां पदानां णाम-णिपात-उस्स(वस)ग्गिताणं तिण्हं चउव्विहो पयत्थो भवति / सामासिकः ताद्धितिकः धातुकृतो नैरुक्तिकश्च / सामासिकः सप्तर्विधो भवति / दंदे य बहुव्वीही, बोधव्वे कम्मधारय दिगू य / तप्पुरिस-अव्वइभावे एगसेसे य सत्तमे // तत्र द्वंद्वः-दन्ताश्च औष्ठौ च दन्तोष्ठं / बहुव्रीहिः-फुल्ला इमम्मि गिरिम्मि कुडय–कयंबा सो इमो गिरी १फुल्लकुडयकयंबो / कर्मधारयः-श्वेतः पटः श्वेतपटः / द्विगु:-त्रीणि मधुराणि त्रिमधुरं / तत्पुरुषः-वने हस्ती वनहस्ती / अव्ययीभावः-अणुचरिया अणुफरिहा / एगसेससमासः-यथा एकः पुरुषः तधा २बहवः पुरुषाः, यथा बहवः पुरुषाः तथा एकः पुरुषः / उक्तः सामासिकार्थः / इदानीं तद्धितार्थः / स चाष्टविधो भवति / कम्मे सिप्पे सिलोगे य, संजोग-समीवओ य संजूहे। ईसरियाऽवच्चेण य, तद्धियअत्थो उ अट्ठविहो // कर्मतो यथा-तणहारओ / सिप्पओ जहा–३तुण्णागादी / श्लाघतो जधा-समणे माहणे। संयोगतः-राज्ञः श्वसुरः / समीपत:-गिरिसमीपे नगरं गिरिनगरम् / संजूहतःमलयवतीकारः इत्यादि / ईश्वरत:-राजा युवराजा / अपत्यतः-तीर्थकरमाता / इदानीं धातुकृतः / यथा-भू सत्तायाम्, परस्मैभाषा / इदानीं नैरुक्तिकः-मह्यां शेते महिष इत्यादि / त्रयाणां पदानामेष ५अर्थो वक्तव्यः / आख्यातिकपदस्य कारक० गाहा कारगकतो चउत्थे, मिस्सपदे मिस्सतो चउत्थो उ / सामासिओं सत्तविधो, हवति पयत्थो उणायव्वो // 329 // - "कारग०" गाहा / कारक इति क्रियामित्यर्थः / शेषमुक्तार्थम् ॥छ। उक्तः पदार्थः / इदानी आक्षेपः प्रसिद्धिश्च अक्खेवों सुत्तदोसा, पुच्छा वा तत्तौ णिण्णयपसिद्धी / आयपया दो सुत्ते, उवरिल्ला तिण्णि अत्थम्मि // 330 // "अक्खेव०" गाहा / सिद्धमेव / ६शिष्याह-पदस्य किं परिमाणम् ? आचार्याह अत्थवसा हवति पदं, अत्थो इच्छियवसेण विण्णेयो। इच्छा य पकरणवसा, पकरणतो णिच्छओ सत्थे // 331 // ... 1. फुल्लिय० पू० 1-2 / 2. बहवे पू० 2 / 3. पुण्णागादी, पू० 2 / 4. गिरेः समीपे पा० / 5. मेष पदार्थो, पा० / 6. शिष्य आह पा० 2 /