________________ भाष्यगाथा-३०३-३११] . . तिपयं जह ओवम्मे, धूम अभिभवे केउ उस्सए अत्थो। .. को सु त्ति अग्गि उत्ते, किंलक्षणों डहण-पयणादी // 307 // "तिपदं०" गाधा / त्रिपदं संहितासूत्रमेतत् / पदार्थ उच्यते-यथेत्यौपम्ये, धूम इत्यभिभवे, केतुरुच्छ्रये / एष पदार्थः / एकपदत्वान्नास्ति विग्रहः / कश्चासौ ? उच्यते-अग्निः / अग्निरित्युक्ते ब्रवीति-स कीदृग्लक्षणः ? / उच्यते-दहन-पचन-प्रकाशन-समर्थोऽर्चिष्मान् इति / अत्र चालना जति एव सुत्त-सोवीरगाई वि होंति अग्गिमक्खेवो / ण वि ते अग्गि पइण्णा, कसिणग्गिगुणण्णितो हेतू // 308 // दिटुंतो घडकारो, ण वि जे उक्खेवणादि तक्कारी / जम्हा जहुत्तहेऊसमण्णिओ णिगमणं अग्गी // 309 // “जति एव०" गाधाद्वयम् / यदीदृशलक्षणोऽग्निर्भवति, तेन तर्हि शुक्तसौवीर-कादयो दहन्ति, करीषादयः पचन्ति, खद्योत-मणिप्रभृतयः प्रकाशयन्ति, एवमेतेऽप्यग्निर्भवन्तु इत्याक्षेपः / अत्र प्रसिद्धि करोत्याचार्य:-यदभिहितमनेन 'यदि दहनादिलक्षणोऽग्निर्भवति तेन तर्हि शुक्तादयोऽप्यग्निर्भवन्ति'; इत्यत्र ब्रूमः-'असदेतत्' इति नः प्रतिज्ञा, ३'कृत्स्नाग्निगुणसमन्वितत्वात्' इति हेतुः / दृष्टान्तो घटकारः / यथा हि-घटकर्ता मृत्पिण्ड-दण्ड-चक्रसूत्रोदकप्रयत्नहेतुकस्य घटस्य कात्स्न्र्येनाभिनिर्वर्तको भवति, अभिनिवृ()त्तस्य चोत्क्षेपणोद्वहनसमर्थो यथा भवति तथाऽन्येऽपि पुरुषाः / नद्युत्क्षेपणोद्वहनादिसामर्थ्यादेव तेषां घटकर्तृत्वं भवति / किमेवं न गृह्यते घटकतुरेवैकस्य घटकारत्वं विद्यते, नेतरेषां ? तस्मात् कृत्स्नगुणान्वितत्वात् पश्यामोऽग्नेरेवैकस्याऽग्नित्वं विद्यते, न शुक्तादीनामिति निगमनम् / लोकोत्तरे इदानीम् उत्तरिऍ जध दुमादी, तदत्थहेऊ अविग्गहो चेव / को पुण दुमु त्ति वुत्तो, भण्णति पत्तातिउववेयो // 310 // तदभावे न दुमु त्ति य, तदभावे वि स दुमु त्ति य पतिण्णा। तग्गुणलद्धी हेतू, दिटुंतो होति रधकारो // 311 // "उत्तरिए०" गाधाद्वयम् / “जधा दुम्मस्स पुष्फेसु भमरो आयियती रसं" [दश० अ० 1 गा० 2] संहितैषा / पदानि-यथा इति पदम्, द्रुम इति पदम्, पुष्प इति पदम्, भ्रमर इति पदम्, आ इति पदम्, पिबतीति इति पदम्, रसमिति पदम् / पदार्थ उच्यते-'यथा' इत्यौपम्ये / - 1-2. शुक्ल० पू० 1, मु० टी० / 3. कृत्स्नगुण० पू० 1-2 / 4. शुक्लादी० पू० 1-2 /