________________ प्रणम्य] [73 नाम .. व्याख्या गाथा = कुतोऽप्यनाभोगात् सामाचारीतः स्खलनेऽपि संविग्नैर्गीतार्थेश्च __ प्रज्ञापयितुं शक्यः / उ.र. प्रणम्य = प्रकर्षेण भक्ति श्रद्धाऽतिशयलक्षणेन नत्वा / ध.प. = प्रकर्षेण मनोवाक्काययोगैर्नत्वेत्यर्थः / ध्या. प्रणिधानम् (पूर्व) = क्रियमाणस्तवोपयोगरूपम् / कू. प्रणिधानम् (प्रान्त) = स्तवफलप्रार्थनारूपम् / क. प्रणिधानम् = दृढाध्यवसानलक्षणम् / ध्या. = प्रणिधानं क्रियानिष्ठमधोवृत्तिकृपानुगम् / परोपकारसारं च चित्तं पापविवर्जितम् // 1 // द्वा. 10/11 = प्रणिधानं तत्समये स्थितिमत्तदधः कृपानुगं चैव / निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च // षो. 3/7 ___ = प्रशस्तावधानम् / द्वा. 22/12 * = प्रार्थनागर्भमैकाग्र्यम् / पं. 4/29 = शुभार्थप्रार्थनारूपं विशिष्टचित्तैकाग्रतागर्भम् / पं. 3/17 प्रणिधानादयः = क्रियाशुद्धिहेतवः / द्वा. 10/9 प्रतिक्रमणप्रायश्चित्तम् = सहस च्चिय अस्समियाइ भावगमणे य चरणपरिणामा / मिच्छादुक्कडदाणा तग्गमणं पुण पडिक्कमणं // 8 // विं. 16/8 प्रतिक्रमणम् = प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च / त.भा... 9/22 = स्वस्थानाद् यत्परं स्थानं, प्रमादस्य वशाद् गतः / भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते // यो.बि. 397 = शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणम्, यदाह - 'स्वस्थानाद् यत परस्थानं प्रमादस्य वशाद् गतः / तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते // ' .. प्रतिकूलं वा गमनं प्रतिक्रमणम्, यदाह'क्षायोपशमिकाद् भावादौदयिकवशं गतः / तत्रापि च स एवार्थः प्रतिकूलगमनात् स्मृतः // ' * प्रति प्रति क्रमणं वा प्रतिक्रमणम्, उक्तं च निःशल्यस्य यतेर्यत् तद् वा ज्ञेयं प्रतिक्रमणम् // ' यो.शा. 3/129