________________ 58] [योगग्रन्थव्याख्यासंग्रहः | नाम नाम व्याख्या गाथा * = तपश्चरणाद्यनुष्ठानम् / उ.र. = दुर्गतिगर्तनिपतज्जन्तुजातधरणप्रवणपरिणामः / पं. 1/1 = दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते / संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये // 10 // * दुर्गतिप्रसृताञ्जन्तून् यस्माञ्जरयते ततः / धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः // यो.श. = दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः / ध्या. = दुर्गतौ प्रपन्तमात्मानं धारयतीति धर्मः उक्तं च- .. "दुर्गतिप्रसृताञ्जीवान् यस्माद्धारकः ततः / धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः // " ल.वि. 296 = धर्मपदार्थः द्विविध- संज्ञानयोगलक्षणः एकः, अन्यः पुण्यलक्षणः / प्र. 94 = प्रवचनम् / पं. 17/24 = प्रवृत्तिनिवृत्तिरूपः / शा.वा. . = यतोऽभ्युदय-निःश्रेयससिद्धिः सः / यो.शा. .. 1/52 = वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् / / - मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते // 3 // ध. = शुभबन्धरूपः / यो.बि. = श्रुतचारित्रलक्षणः / अ. = सदाचाररूपः / यो.बि. 90 = सम्यग्दर्शनादिमोक्षबीजाधानम् / द्वा. 10/8 = सम्यग्दर्शनादिरूपः / पं. 2/2 = सर्वपुरुषार्थप्रथमस्थानोपन्यस्तः अत एव सर्वसमीहितसिद्ध्यवन्ध्यनिबन्धनः श्रुतचारित्राराधनारूपः, दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणः जीवपरिणतिविशेषरूपः / उ.प. 183 = स्वपरोपकारात्मकः / अ. * 2/5 = आत्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनावस्थिताऽविकारिणी / द्वा. 28/7 383 167 धर्मक्षमा