________________ 19 28/8 जिनगुणाः] [45 / नाम . व्याख्या गाथा = रागादिजेतृत्वात्सर्व एव विशिष्टश्रुतधरादयो जिना उच्यन्ते / तद्यथा-श्रुतजिनाः, अवधिजिनाः, मन:पर्यायज्ञानजिनाः, केवलिजिनाश्च / यो.दृ. = श्रुतावधिमनःपर्यायकेवलज्ञानवन्तो जिनकल्पिकाश्च / पं. 4/28 जिनगुणाः = रागादिवैरिवारविदारकत्व-समस्तवस्तुस्तोमविषयविज्ञायकत्व निखिलनाकिनिकायाभिनम्यत्व-सद्भूतपदार्थप्रकाशकारिवाग्वादित्वशिवसुखनायकत्वतद्दानसामर्थ्यादयः / पं. 2/24 जिनतत्त्वगः = जिनस्य तत्त्वं-केवलजीवप्रदेशसंघातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्वगः / यो.वि. जिनतत्त्वम् केवलजीवप्रदेशसञ्जातरूपम्, * केवलज्ञानादिस्वभावम् / षो. 14/1 जिनदेशना = नयशतसमाकुला / अ. जिनपूजाविधिः . . = द्रव्यभावशुचित्वम्, कालाभिग्रहः, सन्माल्यादीनि, व्यूहे प्रयत्नः, कण्ट्वाद्यतिसहनम्, तदेकाग्रता, सत्स्तवपाठः, विधिवन्दनम्, कुशलप्रणिधानमिति / यो.श. जिनभक्तिः = क्रियाकरणकालीनावश्यकाज्ञाप्रणिधानोपस्थिते तद्दातरि भगवत्यहो ! परमसूक्ष्मो जगज्जन्तुहितावहो भगवता धर्मः प्रतिपादित इत्येवंविधादरलक्षणा / गु. जिनमतम् = अर्हत्प्रणीतं सकलभावाविर्भावकं द्वादशाङ्गीरूपं शास्त्रम् / स.स. = जिना रागादिसन्तानविजितास्तेषां वचनम् / त.उ. जिनशासनम् = हेतुयुक्तिदृष्टान्तकृतदुष्टशासनम् / स.स. = निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुत सामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नम् / स.स. जिनाज्ञायुक्तः . = भगवदुक्तविधिपरायणः / सा. जिनोपदेशः = सम्यग्दृशां वस्तुस्वरूपपरिणनम् एव / ध.प. जीतकल्पः = पूर्वपुरुषाचरितलक्षणाचारः / पं. 9/37 जीतव्यवहारः = वत्तणुवत्तपवित्तो, कत्थइ अत्थम्मि जीअकप्पो उ / गु. 2/32 = गीतार्थसंविग्नप्रवर्तितशुद्धव्यवहारः / पं. 16/26 1/66 जिनवचनम् 55