________________ आज्ञाबाह्याः] [17 नाम .. व्याख्या गाथा तक AUo 9/4 आज्ञाबाह्याः = सूत्रविषयस्वतन्त्रविश्वासाऽप्रयोज्यप्रवृत्तिकाः / उ.र. = स्वेच्छामात्रप्रवृत्ताः / उ.र. आज्ञाविचयः = आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् / तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते / / 8 / / यो.शा. 10/8 = आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् / प्रश. 247 आज्ञाशुद्धो भावः = यथावद्भगवदुपदेशपालनप्रभवतया प्रशस्ततामासादयन् भाव:-अध्यवसायः // सा. आतङ्कः ___ = सद्योघाती रोगः / पञ्च. आत्मज्ञानम् . = नात्मनः कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव, नातोऽन्यदात्मज्ञानं नाम / यो.शा. 4/3 आत्मपरिणतज्ञानम् = पातादिपरतन्त्रस्य तदोषादावसंशयम् / अनर्थाद्याप्तियुक्तं चात्मपरिणतिमन्मतम् // 4 // अ. = आत्मनः-स्वस्य परिणामोऽर्थानर्थप्रतिभासात्मा विद्यते यत्र तत्, आत्मनः जीवस्य परिणामोऽनुष्ठानविशेषसंपाद्यो विद्यते यत्रेति नये सम्यक्त्वलाभप्रयोज्यवस्तुविषयतावत्त्वमर्थो लभ्यते / द्वा. आत्मलब्धिक: = स्वाजितलाभान्तरायकर्मक्षयोपशमेप्येव, न तु परसाहाय्यादिना लब्धि-भक्तादिलाभो यस्यासावात्मलब्धिकः, * आत्ता-स्वीकृता लब्धिर्भक्कादिप्राप्त्यनुकूला शक्तिर्येन स आत्तलब्धिको वा, * आप्ता-प्राप्ता लब्धिर्येन स आप्तलब्धिको वा / सा. आत्मस्वभावदर्शनम् = निखिलपरद्रव्यव्यावृत्तस्वत्वरूपस्य विगलितवेद्यान्तरानुभवः / उ.र. आत्मस्वरूपम् = आयसरूवं णिच्चं अकलंकं नाणदंसणसमिद्धं / णियमेणोवादेयं जं सुद्धं सासयं ठाणं // 200 / उ.र. आत्मा = अतति सततं गच्छतीति-आत्मा-प्राणी / अ. 10/5 आदरः = इष्टाप्तौ यत्नातिशयः / द्वा. 23/24 आदाननिक्षेपणासमितिः = रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यका) निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः / त.भा. 9/5 6/2 200