________________ 16] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 1/10 2/6 1/20 1 680 जलदपटलावलुप्यमानमहिमनि नितरामनुपलक्षीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरः पारङ्गतगदितागमाम्बरः / पं. आगमतत्त्वम् = आगमतत्त्वं ज्ञेयं तदृष्टेष्टाविरुद्धवाक्यतया / उत्सर्गादिसमन्वितमलमैदंपर्यशुद्धं च // षो. आगमवचनपरिणतिः = अज्ञानावरणह्नासोत्थोपादेयत्वाद्यविषयबालादिज्ञानतुल्य विषयप्रतिभासोत्तीर्णज्ञानावरणह्नासोत्थोपादेयत्वादि विषयात्मपरिणामवज्ज्ञानरूपा / षो. आगमव्यवहारः ____ = पञ्चविधे व्यवहारमध्ये व्यवहारकार्येण प्रविभक्तं-दानाभवत् प्रायश्चित्तकर्त्तव्यताविषयविभागावच्छिन्नं विशिष्टम् अन्यानुपजीविप्रामाण्यकं ज्ञानम् आगमः / गु. आचारः = आचारो ज्ञानादिर्यत्र कथ्यते सः / त.उ. = ज्ञानाचारादिभेदभिन्नः पञ्चविधः / पञ्च. : = ज्ञानाधाराधनारूपः / उ.प. . आचार्यः = आचार्यतेऽसावित्याचार्यः, सूत्रार्थवगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः / ध्या. = पञ्चविधाचारानुष्ठाता तत्प्ररूपकश्च / द्वा. = आगम उच्यते, आज्ञा हि मोहविषपरममन्त्रः / पञ्च. आज्ञा तु निर्मलं चित्तं, कर्तव्यं स्फटिकोपमम् // 21 / / ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा / रागद्वेषादयो दोषा, हन्तव्याश्च क्षणे क्षणे // 22 // एतावत्येव तस्याज्ञा, कर्मद्रुमकुठारिका / समस्तद्वादशाङ्गार्थ-सारभूतातिदुर्लभा // 23 // यो.सा. आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था यया सा 'आज्ञा' आगमः / अ. = कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा / ध्या. = भगवत उभयनयगर्भा / पञ्च. = सर्व्वविद्वचनोपयोगरूपा / उ.प. आज्ञाकरणम् = अर्हदाज्ञासंपादनम् / श्रा. आज्ञाप्रियत्वम् = अपुनर्बन्धकादिलिङ्गम् / पञ्च. 46 29/7 आज्ञा 1/23 1/6