________________ 12] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा / टा अभ्यासः = प्रायः प्रभूतजन्मानुगः / त.उ. का. 1/11 ___ = पुनःपुनरासेवनम् / यो.बि. 61 अभ्युत्थानादियोगः = अभ्युत्थानासनप्रदानस्थितपर्युपासनादिविनयव्यापाररूप: / यो.बिं. 112 अभ्युदयः = कल्याणावाप्तिः / अ. 27/4 अममः = ममत्वरहितः / पञ्च. अमहात्मा = अनुदारचित्तः / अ. 12/4 अमाघातः = प्राणिघातनिवारणम् / पं. 9/15 अमूढलक्षः = अमूढ: - सुनिर्णयो लक्षो-बोधविशेषो यस्य सः / पं. 14/28 अमृतानुष्ठानम् = जैनवर्त्मनः श्रद्धया-इदमेव तत्त्वमित्यध्यवसायलक्षणयानुष्ठानम् अमृतमुच्यते / द्वा. 13/13 = सहजो भावधर्मो हि शुद्धश्चंदनगन्धवत् / एतद्गर्भमनुष्ठानममृतं संप्रचक्षते // 25 // जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः / . संवेगगर्भमत्यंतममृतं तद्विदो विदुः // 26 / / शास्त्रार्थालोचनं सम्यक् प्रणिधानं च कर्मणि / .. कालाद्यंगाविपर्यासोऽमृतानुष्ठानलक्षणम् // 27 // अध्या. 10/27 अरुहा:-जिनेश्वराः = न रोहन्ति, न भवाङ्करोदयमासादयन्ति कर्मबीजाभावात् इति / पञ्च.१ अर्थः = अनुयोगः / सा. 77 = उपदेशपदप्रसिद्धपदवाक्यमहावाक्यैदंपर्यार्थपरिशुद्धज्ञानम् / यो.वि. 11 = खलु तीर्थकरस्थानम्, तस्य तेनाभिहितत्वात् / गु. 2/213 = यतः सर्वप्रयोजनसिद्धिः सः / यो.शा. = शब्दाभिधेयव्यवसाय: / यो.विं. = नियुक्तिभाष्यादिव्याख्यानम् / उ.र. 14 अर्थविज्ञानम् = ऊहापोहयोगाद् मोह-सन्देह-विपर्यासव्युदासेन ज्ञानम् / यो.शा. 1/51 अर्थविशुद्धिः = यथार्थव्याख्यानेनाविपर्यस्तार्थबोधरूपा / उ.प. 854 अर्थी = तदभिलाषातिरेकवान् / ल.वि. अर्हन् = अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीत्यर्हन्-तीर्थंकरः / श्रा. 1 = अर्हन्ति सुरासुरादिकृतां पूजामिति, यदागमः-अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं / सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति / स.स. 1/52