________________ शब्दः 2/15 114] [योगग्रन्थव्याख्यासंग्रहः | नाम व्याख्या गाथा शबलः = चारित्रसत्तापेक्षया शुद्धत्वादतिचारापेक्षया चाशुद्धत्वाच्छबल उच्यते / 4/41 = यथार्थाभिधानं शब्दः / त.भा. 1/35 शब्दनयाः = प्राय: ऋजुसूत्रसमानविषया एव / अ.म. . 44 शमः = कषायेन्द्रियजयः / यो.शा. 2/40 = कषायेन्द्रियमनसां निरोधः / अ. 11/8 = प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः, 2/15 * अन्ये तु क्रोधकण्डू-विषयतृष्णोपशमः शम इत्याहुः, अन्ये, सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशाद् मिथ्याभिनिवेशोपशमः शमः / यो.शा. = विकल्पविषयोत्तीर्णः स्वभावालम्बनः सदा / ज्ञानस्य परिपाको यः स शमः परिकीर्तितः // 1 // ज्ञा. शमसौख्यम् = अतिमन्दीभूतकषायविषदोषतया प्रशमशर्म / यो.बि.. 54 शय्या = वसतिः सर्वाङ्गीणशयनं वा / पं: 10/16 शय्यातरः = शय्यया-वसत्या तरति संसारसागरम् इति / पं. 17/5 शय्यातरपिंडभोजी = सिज्जाअरो त्ति भण्णइ, आलयसामी उ तस्स जो पिंडो / असणाई तं भुंजइ, सिज्जायरपिंडभोई उ // गु. 3/73 शरणम् = भयार्त्तत्राणं, तच्च संसारकान्तारगतानां अतिप्रबलरागादिपीडितानां दु:खपरम्परासंक्लेशविक्षोभतः समास्वा(श्वा) सनस्थानकल्पं, तत्त्वचिन्तारूपमध्यवसानं, विविदिषेत्यर्थः ल.वि. 146 शरण्यः = गुणाधिकः, गुणाधिकत्वेनैव ततो रक्षोपपत्तेः / यो.श. = क्रोधाद्यबाधितः / यो.बि. 193 = तथाविधेन्द्रियकषायविकारविकलः / यो.बि. 186 = तालु-नासाऽऽननद्वारैर्निरोधः शान्त उच्यते / यो.शा. शासनद्वेषः = आप्तवचनं प्रति मत्सरः / अ. शासनमालिन्यम् ___ = जिनप्रवचनस्य लोकविरुद्धाचरणेनोपघातः / अ. 23/1 शास्त्रज्ञानम् = हस्तस्पर्शसमम् / अ.उ. 1/10 शास्त्रतत्त्वम् = पंडितैकगम्यम्, उत्सर्गादिसमन्वितं, प्रत्यक्षादिनाऽऽगमान्तरेण चाऽविरुद्धार्थं, तात्पर्यतः शुद्धम् / द्वा. 50 शान्तः 5/8 7/5 2/9