________________ 112] [ योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा वैयावृत्त्यम् =. अन्नपानौषधभैषजदानादिना पादधावनशरीरसंवाहनशयनासन रचनादिना च साधुजनोपकारिणा चित्ररूपेण क्रियाविशेषण . व्यावृत्तभावः / उ.प.. = उपधिप्रतिलेखनाहाराद्यानयनादिकम् / सा. = व्यावृत्तभावलक्षणमाहारादिना / यो.दृ. = व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं तस्मिन् तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ / पं.. = व्यावृत्तस्य-अशनादिदानव्यापारवतो भावः कर्म वा / पं. 19/3 वैराग्यम् = माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः / दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः // 17 // प्रश. 17 = भवस्वरूपविज्ञानाद् द्वेषान्नैर्गुण्यदृष्टिजात् / तदिच्छोच्छेदरूपं द्राग् वैराग्यमुपजायते // 1 // अध्या. = विरागस्य भावो / ध्या. = वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति / त.भा. .. 7/7 व्यञ्जनम् = प्रतिनियताभिप्रायस्फुटीकरणम् / त.उ. 1/35 व्ययः = भर्त्तव्यभरण-स्वभोग-देवताऽतिथिपूजनादिप्रयोजने द्रव्यविनियोगः / यो.शा. व्यवस्था = मर्यादा / अ. 17/2 व्यवहरणम् = व्यवहारः स्नानपानदहनपचनादिका क्रिया / द्वा. 8/12 व्यवहारः = कारणस्यापि कार्यत्वोपचाररूंप: / यो.बि. . 369 = धर्मप्रधानः / ध. 197 = लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः / त.भा. . 1/35 व्यवहारतः = सामान्येन फलं प्रति योग्यतामधिकृत्य / यो.श. व्यवहारनयः = व्यवहारप्रधानो नयः / गु. व्याख्याप्रज्ञप्तिः = व्याख्याया जीवादिगताया यत्र नयद्वारेण प्ररूपणा क्रियते सा / त.उ. * 1/20 व्याधिः = कुष्ठादिलक्षणः / यो.दृ. व्यापन्नदर्शनाः ___= अर्हद्देवतादिवचोव्यवहारतः सम्यग्दृष्टिवदाभासमाना अपि निश्चयतो विनष्टसम्यग्दर्शनाः / गु. 1/60 1/48 __79