________________ समर्थशास्त्रकारशिरोमणिसूरिपुरन्दरपूज्याचार्यश्रीहरिभद्रसूरीश्वरादिसूरिश्रेष्ठविरचितयोगग्रन्थ-तट्टीकान्तर्गत योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा 46 16 अकल्पः [अ] अकरणनियमः = पापशरीरकायॆहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशमविशेषः, स च ग्रन्थिभेदादारभ्याऽऽक्षीणमोहं प्रवर्द्धते / ध.प. अकर्मांशः = घातिनां विनाशात् 'अकर्मांशः' ज्ञानावरणीयादीनामष्टानां कर्मणां समुदायभूतानामंशाः अवयवा घातिकर्मलक्षणा न सन्त्यस्येति / गु. 4/41 अकलङ्कम् = अध्यात्मकल्याणकलङ्कवर्जितम् / शा.वा. = क्रोधादिकालिकानाकलिततया कलङ्करहितम् / गु. 4/160 = अविधिः, * चरकपरिव्राजकादिः, * अकल्प्यम् अग्राह्यम् / सा. 31 अकल्पस्थिताः = मध्यमद्वाविंशतिजिनसाधवो महाविदेहजाश्चाकल्पस्थिताः / गु. 2/330 अकामनिर्जरा __= यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेशविचटनरूपा सा / यो.शा. 4/103 = सकामायाः विपरीता / ध.प. अकाल: . = निबिडमिथ्यात्वं तत्त्वविपर्यासलक्षणमुपचारात्तत्कालश्चरमपुद्गल परावर्त्तव्यतिरिक्तशेषपुद्गलपरावर्त्तलक्षणः / उ.र. अकिंचनता . = भोगसाधनानामस्वीकारः / द्वा. 21/2 अकुशलारम्भः = धर्मप्रतिपत्तावपि परोपतापः / पञ्च. अक्षीणपापः = अव्यावृत्तकल्मषः / यो.बि. 103 अक्षुद्रः = अकृपणः, * अक्रूरः / पं. अखेदः = अव्याकुलतालक्षणः / द्वा. अगुरुः = सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः / अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु // 9 // यो.शा. अङ्गप्रविष्टम् = अङ्गेष्वाचाराङ्गादिषु प्रविष्टमाधेयतया सम्बद्धम्, अङ्गत्वेनाधारता, श्रुतत्वेनाधेयता / त.उ. अङ्गबाह्यम् = अङ्गेभ्य आचाराङ्गादिभ्यो बाह्यं भिन्नम् / त.उ. 1/20 37 64 7/4 21/1 1/20