________________ 530 2-3-32 (540) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन शान्तिकेवलिप्रज्ञप्तात् धर्मात् भ्रश्येत् / न शक्याः न श्रोतुं शब्दाः श्रोत्रविषयमागताः। रागद्वेषाः तु ये तत्र, तान् भिक्षुः परिवर्जयेत् // श्रोत्रतः जीव: मनोज्ञामनोज्ञान् शब्दान् शृणोति इति प्रथमा भावना। अथाऽपरा द्वितीया भावना-चक्षुषः जीव: मनोज्ञामनोज्ञानि रूपाणि पश्यति, मनोज्ञामनोज्ञेषु रूपेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदा: यावत् अश्येत् / न शक्यं रुपमद्रष्टुं चक्षुर्विषयमागतम् / रागद्वेषाः तु ये तत्र, तान् भिक्षुः परिवर्जयेत्॥ चक्षुषः जीव: मनोज्ञामनोज्ञानि सपाणि पश्यति इति द्वितीया भावना / अथाऽपरा तृतीया भावना-घ्राणतः जीव: मनोज्ञामनोज्ञान् गन्धान् आजिघ्रति, मनोज्ञामनोज्ञेषु गन्धेषु न सज्येत न रज्येत यावत् न विनिघातमापद्येत, केवली ब्रूयात्मनोज्ञामनोज्ञेषु गन्धेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदाः यावत् भ्रश्येत्। न शक्यं गन्धमाघ्रातुं घ्राणविषयमागतम् / रागद्वेषा: तु ये तत्र, तान् भिक्षुः परिवर्जयेत् / / घ्राणत: जीवः मनोज्ञामनोज्ञान् गन्धान् आजिघ्रति इति तृतीया भावना। अथाऽपरा चतुर्थी भावना-जिह्वातः जीव: मनोज्ञामनोज्ञान् रसान् आस्वादयति, मनोज्ञामनोज्ञेषु रसेषु न सज्येत यावत् न विनिघातमापद्येत, केवली ब्रूयात्मनोज्ञामनोज्ञेषु रसेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदा: यावत् अश्येत् / न थक्यं रसमारवादयितुं जिह्वाविषयमागतम् / रागद्वेषाः तु ये तत्. तान् भिक्षुः परिवर्जयेत् // जिह्वातः जीव: मनोज्ञामनोज्ञान् रसान् आस्वादयति इति चतुर्थी भावना। अथाऽपरा पचमी भावना-स्पर्शत: जीव: मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसेवते, मनोज्ञामनोज्ञेषु स्पर्शेषु न सज्येत यावत् न विनिघातमापयेत, केवली ब्रूयात्- निर्ग्रन्थ: मनोज्ञामनोज्ञेषु स्पर्थेषु सज्यमान: यावत् विनिघातमापद्यमानः शान्तिभेदाः शान्तिविभङ्गाः शान्तिकेवलिप्रज्ञप्तात् धर्मात् प्रश्येत् / न शक्यः स्पर्थ: अवेदितुं स्पर्थविषयमागतः / रागद्वेषाः तु ये तत्र तान् भितः परिवर्जयेत् // स्पर्शत: जीव: मनोज्ञामनोज्ञान् स्पर्शान् प्रतिसंवेदयति, इति पञ्चमी भावना / एतावता पञ्चमे महाव्रते सम्यग् अवस्थितः आज्ञया आराधितं च अपि भवति / पञ्चमं भदन्त ! महाव्रतम् / इति एतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्न: अनगारः यथाश्रुतं यथाकल्पं यथामार्ग सम्यक् कायेन स्पृष्ट्वा पालयित्वा तीर्वा कीर्तयित्वा आज्ञया आराधिताः च अपि भवन्ति / / 540 // III सूत्रार्थ : हे भगवन् ! पांचवें महाव्रत के विषय में सर्व प्रकार के परिग्रह का परित्याग करता