________________ 508 2-3-28 (538) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन %3 व्युत्सृजामि। तस्य इमाः पच-भावनाः भवन्ति, तत्र इयं प्रथमा भावना-ईर्यासमितः सः निर्ग्रन्थः, न अनीर्यासमितः इति, केवली ब्रूयात् आदानमेतत्- अनीर्यासमितः सः निग्रन्थः प्राणिनः भूतानि जीवान् सत्त्वान् अभिहन्यात् वा वर्तयेत् वा परितापयेत् वा श्लेषयेत् वा अपद्रावयेत् वा, ईर्यासमित: स: निन्थः , न अनीर्यासमितः इति प्रथमा भावना। अथाऽपरा द्वितीया भावना-मनः परिजानाति सः निर्ग्रन्थः / यत् च मन: पावकं सावधं सक्रिय आश्रवकरं छेदकरं भेदकरं अधिकरणकं प्राद्वेषिकं पारितापिकं प्राणातिपातिकं भूतोपघातिकं च तथाप्रकारं मनः न प्रधारयेत् गमनाय / य: मनः परिजानाति सः निर्ग्रन्थः / यत् च मन: अपापकं इति द्वितीया भावना। अथाऽपरा तृतीया भावना-वाचं परिजानाति स: निर्ग्रन्थः, या च वाक् पापिका सावद्या सक्रिया यावत् भूतोपघातिका, तथाप्रकारां वाचं न उच्चारयेत्, य: वाचं परिजानाति सः निर्ग्रन्थः, या च वाक् अपापिका इति तृतीया भावना। अथाऽपरा चतुर्थी भावना-आदानभाण्डमात्र-निक्षेपणा-समितः सः निर्ग्रन्थः, न अनादानभाण्ड-मात्रनिक्षेपणासमितः, के वली ब्रूयात् आदानमेतत् - आदानभाण्डमात्रनिक्षेपणाऽसमितः सः निर्ग्रन्थः प्राणिनः भूतानि जीवान् सत्त्वान् अभिहन्याद् वा यावत् अपद्रावयेत् वा, तस्मात् आदानभाण्डमात्रनिक्षेपणा-समितः सः निर्ग्रन्थः, न आदानभाण्डमात्रनिक्षेपणाऽसमित: इति चतुर्थी भावना। अथाऽपरा पथमी भावना-आलोकितपान-भोजनभोजी सः निर्ग्रन्थः, न अनालोकितपान-भोजनभोजी, केवली ब्रूयात् आदानमेतत्, अनालोकितपानभोजनभोजी सः निन्थ, प्राणिनः, अभिहन्याद् वा यावत् अपद्रावयेत् वा, तस्मात् आलोकितपानभोजनभोजी स: निर्ग्रन्थः, न अनालोकितपानभोजनभोजी इति पञ्चमी भावना। एतावता महाव्रतं सम्यक् कायेन स्पर्शितं पालितं तीर्ण कीर्तितं अवस्थितं आज्ञया आराधितं च अपि भवति, प्रथमं भदन्त ! महाव्रतं प्राणातिपातात् विरमणम् // 536 // III सत्रार्थ : हे भगवन् में प्रथम महाव्रत में प्राणतिपात से सर्वथा निवृत होता, हूं, मैं सूक्ष्म, बादर, अस-स्थावर समस्त जीवों का न तो स्वयं प्राणातिपास-हनन करूंगा, न दूसरों से कराऊंगा,