________________ 500 2-3-27 (535) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन प्रतिविसर्जयति, प्रतिविसर्म्य इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, तद्यथा-द्वादश वर्षाणि व्युत्सृष्टकाय: त्यक्तदेहः ये केचित् उपसर्गाः समुत्पद्यन्ते, तदयथा-दिव्याः वा मानुष्याः वा तैरिश्चिका: वा, तान् सर्वान् उपसर्गान् समुत्पन्नान् सतः सम्यग् सहिष्ये क्षमिष्ये अध्यास्ये ततश्च श्रमणः भगवान् महावीरः इमं एतद्रूपं अभिग्रहं अभिगृह्य व्युत्सृष्टत्यक्तदेहः दिवसे मुहूर्तशेषे कुमारग्रामं समनुप्राप्तः / ततश्च श्रमणः भगवान् महावीरः व्युत्सृष्टत्यक्तदेहः अनुत्तरेण आलयेन अनुत्तरेण विहारेण एवं संयमेन प्रग्रहेण संवरेण तपसा ब्रह्मचर्यवासेन क्षान्त्या मुक्त्या समित्या गुप्त्या तुष्ट्या स्थानेन क्रमेण सुचरितफलनिर्वाणमुक्तिमार्गेण आत्मानं भावयन् विहरति / एवं वा विहरत: ये केचित् उपसर्गाः समुत्पद्यन्ते, दिव्याः वा मानुष्याः वा तैरिश्चिकाः वा, तान् सर्वान् उपसर्गान् समुत्पन्नान् सत: अनाकुल: अव्यथित: अदीनमना: त्रिविधमनो वचनकायगुप्तः सम्यक सहते क्षमते तितिक्षते अध्यास्ते। ततश्च श्रमणस्य भगवतो महावीरस्य एतेन विहारेण विहरतः द्वादश वर्षाः व्यतिक्रान्ता: अयोदशमस्य च वर्षस्य पर्याये वर्तमानस्य यः असौ ग्रीष्मस्य द्वितीय: मास: चतुर्थः पक्षः वैशाखशुक्लः, तस्य च वैशाखशुक्लस्य दशमी-पक्षे सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तराभिः नक्षत्रेण योगोपगतेन प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्यां जृम्भिकग्रामस्य नगरस्य बहिस्तात् नद्याः ऋजुवालुकाया: उत्तरकुले श्यामकस्य गृहपतेः काष्ठकरणे ऊध्वं जानु-अधः शिरस: ध्यानकोष्ठोपगतस्य व्यवृत्तस्य चैत्यस्य उत्तरपूर्वे दिग्भागे शालवृक्षस्य अदूरपार्धे उत्कुटुकस्य गोदोहिकया आतापनया आतापयत: षष्ठेन भक्तेन अपानकेन शुक्लध्यानान्तरिकायां वर्तमानस्य निर्वाणे कृत्स्ने प्रतिपूर्णे अव्याहते निरावरणे अनन्ते अनुत्तरे केवलवरज्ञानदर्शने समुत्पन्ने। स: भगवान् अर्हन् जिन: केवली सर्वज्ञः सर्वभावदर्शी सदेवमनुजासुरस्य लोकस्य पर्यायान् जानाति, तद्यथा-आगतिं गतिं स्थितिं च्यवनं उपपातं भुक्तं पीतं कृतं प्रतिसेवितं आवि:कर्म रहःकर्म लपितं कथितं मनोमानसिकं सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यन् च एवं विहरति / यस्मिन् दिवसे श्रमणस्य भगवतो महावीरस्य निर्वाणे कृत्स्ने यावत् केवलवरज्ञानदर्शने समुत्पन्ने, तस्मिन् दिवसे भवनपतिवानव्यन्तर-ज्योतिष्क-विमानवासिदेवैः च देवीभिश्च उत्पतद्भिः यावत् आकाश: उत्पिञ्जलकभूतश्च अपि अभवत्। ततश्च श्रमण: भगवान् महावीरः उत्पन्नवरज्ञानदर्शनधरः आत्मानं च लोकं च . अभिसमीक्ष्य पूर्वं देवानां धर्ममाख्याति, ततः पश्चात् मनुष्याणाम् / ततश्च श्रमणः भगवान् महावीरः उत्पन्नवरज्ञानदानधरः गौतमादीनां श्रमणानां