SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 75 श्रीभावप्रभसूरिकृतम् “यो जैनमन्दिरमुदारविशुद्धबुद्धि विष्टकोपलतृणैः कुरुते स्वशक्त्या / रत्नांशुकर्बुरमनिन्द्यवधूसमेत माप्नोति 'कल्पभवनं भुवने स धन्यः // 1 // वसन्त० जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् / तस्य नरामरशिवसुख-फलानि करपल्लवस्थानि // 2 // आर्या सन्मृत्तिकामलशिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारु बिम्बम् / कुर्वन्ति जैनमिह ये स्वधनानुरूपं . ते प्राप्नुवन्ति नृसुरेषु महासुखानि // 3 // वसन्त० २मट्टीमयं च बिब, तिणकट्ठीरेहिं कारए भवणं / ___ कासस्स य कुसुमेहिं, पूइज्जंतं करे मुत्तं // 4 // " आर्या . इति विंशतितमवृत्तस्यार्थः // 20 // सूत्रम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं चित्तोन्नतिं भजत लुम्पकतां लुनीत / चैत्यं विधत्त शृणुत प्रविलोक्य तत् सद् भव्या व्रजन्ति तरसाऽप्यजरामरत्वम् // 21 // व्याख्या-हे 'आस्तिकाः !' अस्ति परलोकः पुण्यं पापं चेति मन्यन्ते ते हे श्रद्धालवः ! यूयं नास्तिकतां नितान्तं-अत्यन्तं त्यजत-दूरीकुरुत / नास्ति परलोकः पुण्यं पापं च तस्य भावो नास्तिकता ताम् / पुनः यूयं चित्तोन्नति-दानवीरतां भजत-आश्रयत / यूयं लुम्पकतां लुनीत-प्रतिमाद्वेषित्वं मर्दयत / पुनः यूयं चैत्यं विधत्त-कारणे कार्योपचारात् कारयत / पुनः 1. देवलोकम् / 2. छाया मृत्तिकामयं च बिम्बं तृणकाष्ठेष्टिकाभिः कार्यते भवनम् / काशस्य च कुसुमैः पूजयन्तं करोति मुक्तम् //
SR No.004432
Book TitleJaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhadrankar Prakashan
Publication Year2007
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy