________________ 74 श्रीजैनधर्मवरस्तोत्रम् स्फुरदगुरु सुमालीसौरभोद्गारसाराः कृतजिनवरपूजा देवरूपा महेभ्याः // 1 // मालिनी स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् / अकलितभजनानां वल्कलान्येव वस्त्रा ___ण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः // 2 // " मालिनी इति प्रतिमाशतकवृत्तौ / स्थापनाभक्तितो दमयन्त्या कष्टं निवारितम् / लोकेऽपि ( एक )लव्यनाम्ना वनेचरेण कृता मृण्मयी द्रोणचार्यमूर्तिः सम्यक् सेविता च धनुर्विद्यासिद्धिकरी जाता / इति एकोनविंशतितमवृत्तस्यार्थः // 19 // अथ चैत्यमाश्रित्याहसूत्रम् जैनालया निजयशोनिचया इवैते यैः सम्प्रतिप्रतिमराजगणैः सिताभाः / उच्चैः कृताः शुचिरुचेद्भुतमत्र तैश्च गच्छन्ति नूनमध एव हि बन्धनानि // 20 // व्याख्या हे 'शुचिरुचे !' शुचिः-निर्मला रुचिः-धर्मेच्छा यस्य स तस्य सम्बोधने / जिनस्य इमे जैनाः, जैनाश्च ते आलयाश्च जैनालया: यैः सम्प्रतिप्रतिमराजगणैः सम्प्रतिनाम्ना भूपेन प्रतिमैः-सदृशैः च तैः राजगणैः-कुमारपालादिनृपसमूहै। उच्चैः कृताः अत्र कारणे कार्योपचारात् कारिता इत्यर्थः / कथंभूता जैनालयाः ? सिताभाः-सुधाभिः श्वेतकान्तयः / उत्प्रेक्ष्यते-एते निजयशोनिचया:-मूर्तिमत्स्वकीय-कीर्तिपुञ्जाः नूनं-निश्चितं अत्र एतत् अद्भुतं-आश्चर्यं वर्तते / हि-यस्मात् कारणात् तैः राजगणैः बन्धनानिकर्मबन्धनानि अध एव गच्छन्ति / शत्रन्तं पदम् / एवंविधानि कृतानि / अत्र कर्मोक्तिः अर्थवशाद् विभक्तिविपरिणामः / यत्र गृहाद्यारम्भाः क्रियन्ते तत्र उच्चैः उच्चैः काष्ठडागलकबन्धाः क्रियन्ते कारुकैस्तत्र स्थित्वा उपरितनं कार्यं क्रियते / अत्र तु विपरीतम् / अत आश्चर्यम् / तेषां पापबन्धास्त्रुटिता इत्यर्थः / अत्र चशब्दात् तैः जिनालयैः कृत्वा कर्मबन्धनानि अध एव गच्छन्ति-प्रयान्ति / अत्र कवुक्तिः / प्राणिनामिति शेष इत्यपि शब्दार्थः / यतः 1. कुसुमश्रेणी।