________________ स्वोपज्ञवृत्तिविभूषितत्वं च समर्थ्यते निम्नलिखितेन पद्ययमलेन टीकाग्रगतेन "नत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च / 'कल्याणमन्दिरा'न्त्याङ्घि-समस्यारचनाश्रितम् // 1 // 'जैनधर्मवरस्तोत्रं', कृतं यन्मयका मुदा / तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥२।"-युग्मम् इदं स्तोत्रं मूलमानं प्राकाश्यं नीतं काशिकश्रीयशोविजयजैनपाठशालया जैनस्तोत्रसङ्ग्रहस्य प्रथमे भागे।तत्र २३तमे पृष्ठेऽस्य श्रीजैनधर्मवरसंस्तवन 'मिति नाम सन्दर्शितम् / तदपि समीचीनमित्यवसीयतेऽस्य प्रान्तस्थेन प्रशस्तिरूपेण निम्नलिखितेन पद्येन "भावप्रभाख्यवरसूरिगणाधिपेन _ 'श्रीजैनधर्मवरसंस्तवनं' सुरम्यम् / शिष्यस्य कौतुककृते रचितं सुबोधं 'कल्याणमन्दिर' सदन्तिमपादलग्नम् // 45 // " एतेषामन्तिमानां षण्णां जिज्ञासुभिः प्रेक्ष्यतां जैनस्तोत्रसग्रहस्य द्वितीयो विभागः / संसारदावानलेतिस्तुतेः प्रत्येकपादपूर्तिरूपं काव्यम् / 'मांडवगढ का मन्त्री अथवा पेथडकुमार का परिचय सञकस्य पुस्तकस्य परिशिष्टेऽस्ति / उवसग्गहरस्तोत्रस्य सर्वेषां पादानां पूर्तिरूपं श्रीपार्श्वस्तोत्रम् / एतदर्थं निरीक्ष्यतां श्रेष्ठिदेवचन्दलालभाई जैन पुस्तकोद्धारसंस्थायाः 80 तमो ग्रन्थः (पृ० 45-48) / प्रवर्तकश्रीमत्कान्तिविजयविनेयैः श्रीचतुरविजयैः प्रतीते कल्लाणकंदेतिस्तुतिपादपूर्तिरूपे काव्ये / एतज्जिज्ञासुभिः प्रेक्ष्यतामात्मकान्तिप्रकाशः (पृ० 110-111) / ___ अयोगव्यवच्छेदद्वात्रिंशिकायाः पादपूर्तिरूपं काव्यं वर्तत इति मे श्रुतिपथमागतम् न तु नयनगोचरतां गतम् / नैषधीयचरितपादपूर्तिरूपं श्रीशान्तिनाथचरित्रम् / शिशुपालवधपादपूर्तिरूपं श्रीदेवानन्दाभ्युदयकाव्यम् / मेघदूतपादपूर्तिरूपाणि विविधानि काव्यानि / 'शिवमहिम्नः' स्तोत्रपादपूर्तिरूपं श्रीऋषभमहिम्नः / 'जैनस्तोत्र तथा स्तवनसंग्रह अर्थसहित' सञके पुस्तके 1907 तमे ऐसवीयाब्दे प्रसिद्धि नीतम् / 1. एतस्य पद्ययमलस्य सादृश्यं दरीदृश्यते श्रीनेमिभक्तामरस्य अवतरणिकागतयोनिम्नलिखितयोः पद्ययो:-"नत्वा श्रीपार्श्वनाथाय गुरवे वाणयेऽपि च / 'भक्तामर स्तवान्त्यांहि-समस्यारचनाश्रितम् // 1 // नेमिसम्बोधनं काव्यं, कृतं यन्मयका मुदा / तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा // 2 // " 2. अनेन समसूचि रचनाकारणम् /