SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना "पूर्णानन्दमयं महोदयमयं कैवल्यचिट्टग्मयं रूपातीतमयं स्वरूपरमणं स्वाभाविकीश्रीमयम् / ज्ञानोद्योतमयं कृपारसमयं स्याद्वादविद्यालयं / . श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् // " प्रसिद्धि नीयमानेऽस्मिन् ग्रन्थे मुख्यतया विराजति कृतित्रितयं श्रीभावप्रभसूरिवराणाम् / तत्रैकैकां कृतिमुद्दिश्य यथासाधनं प्रस्तूयते परामर्शः / तावत् प्रारम्भे तार्किकचक्रचूडामणि- श्री सिद्धसेनदिवाकरै रचितस्य कल्याणमन्दिरस्तोत्रस्य चतुर्थस्य चरणस्य पूर्तिरूपेण गुम्फितं श्रीजैनधर्मवरस्तोत्रं लक्ष्यीक्रियते / अस्य समस्यारूपत्वं 1. साम्प्रदायिकोऽयमुल्लेखः / 2. जैनसाहित्ये विविधानि पादपूर्तिरूपाणि काव्यानि सन्ति, यथाहि (1) वीरभक्तामरम्, (2) नेमिभक्तामरम्, (3) सरस्वतीभक्तामरम्, (4) शान्तिभक्तामरम्, (5) पार्श्वभक्तामरम्, (6) ऋषभभक्तामरम् (7) प्राणप्रियप्रारम्भिकाक्षरमयं नेमिभक्तामरम्, (8) दादापार्श्वभक्तामरम्, (9) श्रीजिनभक्तामरम्, (10) वल्लभभक्तामरम्, (11) सूरीन्द्रभक्तामरम्, (12) आत्मभक्तामरम्, (13) श्रीऋषभदेवजिनस्तुतयः, (14-15) कालुभक्तामरस्तोत्रे (कानमल्लप्रणीतं सोहनलालप्रणीतं च)। एतेषु प्रथमे द्वे भक्तामरपादपूर्तिरूपकाव्यसङ्ग्रहस्याद्ये विभागे प्रसिद्धि नीते, ततस्त्रिकं तु द्वितीये विभागे / षष्ठाष्टमनवमानि तृतीये विभागे प्रसिद्ध्यमानानि / एतानि सर्वाण्युद्दिश्य किमपि वक्तव्यं निवेदितं मया भक्तामरकल्याणमन्दिरनमिऊणस्तोत्रत्रयस्य प्रस्तावनायां (पृ० 13-15), अतः पिष्टपेषणेनात्र किम् ? / नवकल्लोलपार्श्वभक्तामरमपि समस्तीति केचित् / (16-17) संसारदावानलेतिस्तुतेः समस्तानां पादानां पूर्तिरूपं श्रीप्रथमजिनस्तवनं श्रीपार्श्वजिनस्तवनं च / एतदर्थं समीक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य प्रथमो विभागः (पृ० 65-69) / (18) संसारदावानलेत्याद्यपद्यस्य समस्तानां चरणानां पूर्तिरूपाः श्रीवीरजिनस्तुतयः / (19) कल्याणमन्दिराद्यपद्यचरणचतुष्टयपूर्तिरूपा वीरजिनस्तुतिः / (20) सकलकुशलेति पद्यस्य सकलपादपूर्तिरूपाः श्रीशान्तिजिनस्तुतयः / (21) श्रेयःश्रियां मङ्गलेति काव्यस्य समग्रपादपूर्तिरूपाः श्रीपार्श्वजिनस्तुतयः / (22) स्नातस्येति पद्यस्य सम्पूर्णतः पादपूर्तिरूपाः श्रीवीरजिनस्तुतयः / (23) श्रीनेमिः पञ्चरूपेत्यादिज्ञानपञ्चमीस्तोत्रस्य तुरीयस्य चरणस्य पादपूर्तिरूपा ज्ञानपञ्चमीस्तुतयः /
SR No.004432
Book TitleJaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhadrankar Prakashan
Publication Year2007
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy