________________ 22 श्रीजैनधर्मवरस्तोत्रम् कृत्वा पापसहस्त्राणि, हत्वा जन्तुशतानि च / / अमुं मन्त्रं समाराध्य, तिर्यञ्चोऽपि दिवं गताः // 5 // अनु० १नवकारइक्कअक्खर, पावं फेडेइ सत्त अइराणम् / पन्नासं 50 च पएणं, पंच सयाई समग्गेण // 6 // आर्या जे केवि गया मुक्खं, गच्छन्ति य (जंति गमिस्संति ?) कम्ममलमुक्का / ते सव्वेवि य जाणसु, जिणनमुक्कारप्पभावेण // 7 // आर्या जो गुणइ लक्खमेगं, पूएइ विही(इ) जिणनमुक्कारो / तित्थयरनामगुत्तं, सो बंधइ नत्थि संदेहो // 8 // आर्या तातादेशवशादपीह नृभवे न त्वं मयाऽऽराधितस्तेनाहं भवसन्निभे निपतितोऽम्भोधौ महापातकी / तत् त्रायस्व विभो ! ममाशु शरणं सर्वज्ञ ! बिम्बाकृते ! २मीनो मीनवरान्नमस्कृतिपरो जातस्मृतिः स्वर्ययौ // 9 // " शार्दूल० पञ्चपरमेष्ठिनामष्टोत्तरशतं 108. गुणाः, तेन मालायामष्टोत्तरशतं मणिकाः / तान् दर्शयति " ३बारस 12 गुण अरिहंता, सिद्धा अद्वेव 8 सूरि छत्तीसम् 36 / उज्झाया पणवीसं 25, साहु सगवीस 27 अट्ठसयम् 108 // 1 // आर्या अशोकवृक्षः 1 सुरपुष्पवृष्टि 2 दिव्यध्वनि 3 श्चामर 4 मासनं 5 च / 1. छाया-नमस्कारैकाक्षरं पापं स्फेटयति सप्त अतराणां (सागरोपमाणाम् ) / पञ्चाशच्च पदेन पञ्च शतानि समग्रेण // ये केऽपि गता मोक्षं गच्छन्ति च कर्ममलमुक्ताः / ते सर्वेऽपि च जानीहि जिननमस्कारप्रभावेण // यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् / तीर्थकरनामगोत्रं स बध्नाति नास्ति सन्देहः // 2. विचार्यतां यदुक्तं श्रीसिद्धसेनदिवाकरैर्नमस्कारमाहात्म्यसप्तमप्रकाशे "श्रूयते चारमाम्भोधौ, जिनबिम्बाकृतेस्तिमः / नमस्कृतिपरो मीनो, जातस्मृतिदिवं ययौ // 1 // " 3. छाया-द्वादश गुण अर्हतां सिद्धानामष्टैव सूरीणां षट्त्रिंशत् / उपाध्यायानां पञ्चविंशतिः साधूनां सप्तविंशतिरष्टोत्तरशतम् //