________________ श्रीभावप्रभसूरिकृतम् अथ केनचिदल्पबहुत्वजीवसंख्याप्रश्ने कृते केवली प्राह "नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा व्यक्षाद्या ज्वलना यथोत्तरममी संख्यातिगा भाषिताः / तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथाऽनुक्रम सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः (?) // 1 // " शार्दूल० इत्यादि देशनां निशम्य कमलया सह हरिः प्रतिबुद्धो जैनधर्मं जग्राह / अभक्ष्यानन्तकायरात्रिभोजनादिकेभ्यो विरमितौ / यतः "येऽश्नन्त्य शूकाः पशुवन्निशायां भवन्ति ते हन्त भवान्तरेषु / उक का कोरगशूकरालि( ली) - गोधौतुगृध्राः कथितं जिनेन्द्रैः // 1 // " उपजाति: ततः पूर्वं दृष्टमाहात्म्यात् स हरिः परमेष्ठिस्वरूपं पप्रच्छ / ततः केवलिसाधुराह "पञ्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहता पञ्चतीर्थी तीर्थान्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याक्षराणि / यस्याष्टौ सम्पदो वाऽनुपमतममहासिद्धयोऽद्वैतशक्तिर्जीयाल्लोकद्वयस्याभिलषितफलदः श्रीनमस्कारमन्त्रः // 1 // स्त्रम् सारा वाङ्मयवारिधेरघहरी पुण्यप्रबन्धोद्धुरा वेतालानलकालकूटसलिलव्यालादिदोषापहा / निर्वाणादिषु सुप्रदानचतुरा कामार्थसम्पादिका ध्याता पञ्चनमस्कृतिः शुभधिया सर्वार्थसंसाधिका // 2 // शार्दूल० सङ्ग्राम-सागर-करीन्द्र-भुजङ्ग-सिंहदुर्व्याधि-वह्नि-रिपु-बन्धनसम्भवानि / चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि // 3 // वसन्ततिलका किं मन्त्रयन्त्रौषधिमूलिकाभिः किं गारुडोड्डीशमणीन्द्रजालैः / . स्फुरन्ति चित्ते यदि मन्त्रराजपदानि कल्याणपदप्रदानि // 4 // उपजातिः 1. निर्दयाः /