________________ नीभाडक नीभाडो मण्डक मांडो मनो दत्त्वा मन दइने 5, 12 विचाल वच्चे 42 हाक-हीक्क-हक्कोठाः हाकोटा हिन्दीभाषानैपुण्यमीमांसार्थं विद्यन्ते चतस्त्रः पङ्क्तयः ९८तमे पृष्ठे / दिव्यानामधिकारः (पृ० 114-115), श्रीपाशचन्द्रमतखण्डनं (पृ० 66-67), श्रीनेमिनाथस्य महादेवेन सह सन्तुलनं (पृ० 68-69), 'ॐ भूर्भुवःस्वः' इत्यादिवैदिकगायत्र्या नमस्काररूपमहागायत्र्याः प्रतिच्छायारूपत्वं, सिद्धपुत्रेति प्राचीनपन्थप्रदर्शनमित्यादिका विविधा विषया वर्तन्तेऽस्यामाद्यकृतौ / श्रीभावप्रभसूरीश्वराणां परिचिति: के इमे श्रीभावप्रभसूरयः कर्हि कं मण्डलं मण्डयाञ्चक्रिवांसः केषां सन्निधौ पारमेश्वरी प्रव्रज्यां जगृहुः कांस्कान् ग्रन्थान् जग्रन्थुरिति जिज्ञासावृन्दे विमर्शपथपान्थतां प्राप्ते सति सत्तृप्त्यर्थं क्रियते साधनानुसारं प्रयासोऽयं मया मन्दमेधसा / तावत् श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तस्थेनोल्लेखेनावगम्यते यदिमे सूरिवराः श्री 'ऊकेश'वंशज्ञातीय वाणी' गोत्रसाहाश्रीमाण्डणपत्नीवाहिमदेवीकुक्षेः समुत्पन्नाः / एतेषां जन्मस्थलसमयादिवृत्तान्तो न मे दृष्टिपथं श्रुतिमार्ग वाऽऽगतः / दीक्षासमयेऽभिधानम् एतेषां सूरिपदप्राप्तिपूर्वं भावरत्नेति' नामासीत् / तत्र एभिर्विरचितस्य श्रीनेमिभक्तामरस्य स्वोपज्ञटीका( पृ० 163 )गता निम्नलिखिता पङ्क्तिः प्रमाणम् "एतद्विशेषणेन शिष्यावस्थायां भावरत्न इति निजनाम कविना दर्शितम् / सूरिपदप्राप्तौ तु भावपभ इति नाम लब्धमिति / " सूरिपदम् एतेषां सूरिपदवीप्रदानमहोत्सवोऽकारि १७७२तमवैक्रमीयहायनस्य माघमासस्य शुक्ले पक्षे श्राद्धत्वश्रीतेजसीश्रेष्ठिवरेण स्वद्रव्यव्ययेनेति ज्ञायते श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तभागाव-लोकनेन / समर्थ्यते चेदं न्यायाचार्य-न्यायविशारदवाचकपुङ्गव-श्रीमद्यशोविजयगणि-युक्तितस्य प्रतिमाशतकस्य लघुवृत्ते:२ प्रशस्ति 1. अनेन समाननामधेयेन वा देवधर्मपरीक्षाप्रतिः समलेखि याऽधुना पालीताणागत' श्रीआणंदजीकल्याणजीपेढी' भण्डागारे वर्तते / 2. अस्या रचनासमयोऽवगम्यते निम्नलिखितपद्यप्रेक्षणेन