________________ श्रीभावप्रभसूरिकृतम् ___ सङ्घोऽपि चमत्कृतः / तस्या अधीनो जातः / अथ तस्याः पतिर्मैत्रनामा स च मिथ्यात्वी अज्ञानी नित्यं मृत्पिण्डान् पार्थिवान् करोति कुदेवादिभक्तः / एकदा दैवात् जटिलस्य १अलाबुभाण्डं तेन भग्नं, ततः कुपितेन जटिलेन काम्बडिकया ताडितो नेत्रोपरि गतनेत्रो मैत्रो विप्रो जातः / स्त्रिया प्रोक्तम्-हे प्रिय ! दृष्टं कुसङ्गफलम् ? / यतः "कुदेशं च कुमित्रं च, क्वौषधं च कुसौहृदम् / / कुभार्यां च कुराज्यं च, दूरतः परिवर्जयेत् // 1 // अनु० वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् / राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषिणं ___ भार्यां यौवनगर्वितां पररतां नेच्छन्ति ये पण्डिताः // 2 // शार्दूल० * खरं श्वानं गजं मत्तं, रण्डां च बहुभाषिणीम् / कुराजानं कुमित्रं च, दूरतः परिवर्जयेत् // 3 // " अनु० ततो जैनधर्मो ग्राहितः, परमजैनो जातः, क्रमेण गृहेऽपि महती समृद्धिर्जाता / एकदा विप्रपङ्क्तौ गत्वा स्थितः / विप्रैः प्रोक्तम्-अहो यतिभिर्गतनेत्रोऽपि मैत्रोऽयं प्रतिलेखितः / तदा मैत्रेण प्रोक्तम्-अहं दिव्यनेत्रो भवानि जैनधर्मप्रभावात्, यूयं गताक्षा भवत / तथैव जातम् / सर्वे पादौ श्रिताः जैनधर्मं ग्राहिताः, शासनदेवतया सर्वेऽपि दिव्यनेत्राः कृताः / गरटा मैत्रश्चायुःक्षये मृत्वा सुरौ भूत्वा मानवभवं प्राप्य मुक्तिं गमिष्येते // इति षड्विंशतितमवृत्तार्थः सम्पूर्णः // 26 // . सूत्रम् क्षेत्राणि कानि तव धर्मनृपस्य सप्त चैत्यादिकानि भरतः पुनराह तातम् / सत्यं च तैः परिचितैर्हि पुराऽधुना त्वं २शालत्रयेण भगवनभितो विभासि // 27 // व्याख्या-क्षेत्राणीति / भरतः प्राह हे प्रभो ! तव धर्मनृपस्य कानि क्षेत्राणि वर्तन्ते ? प्रभुः प्राह-हे चक्रिन् ! चैत्यादिकानि क्षेत्राणि सप्त / पुनः भरतः तातं प्राह-हे प्रभो ! त्वया यत् उक्तं तत् सत्यं, त्वदुक्तमेवाहं जानामि, ३श्रद्दधामि चेत्यर्थः / चः समुच्चयार्थः / हिनिश्चितं हे भगवन् ! अधुना त्वं अभितः-सर्वतः सालत्रयेण विभासि-रोचसे / कैः ? पुरा 1. तुम्बपात्रम् / 2. 'साल०' इत्यपि पाठः / 3. 'श्रद्दध्म' इति क-पाठः /