________________ 24 श्री औपपातिकसूत्रम् तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिर :प्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग -शरीरं यस्याः सा तथा / 'ससिसोमाकार-कंत-पिय-दसणा' शशिवत्सौम्याकारं कान्तं च-कमनीयमत एव च प्रियंवल्लभं द्रष्ट्रणां दर्शनं-रूपं यस्याः सा तथा / अत एव 'सुरूव'त्ति शोभनरूपा / 'करतलपरिमिय-पसत्थ-तिवलीयवलियमज्झा' करतलपरिमितो-मुष्टिग्राह्य : प्रशस्त:शुभस्त्रिवलिको-वलित्रययुक्तो वलित:-सञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा / 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखा:-कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखे'ति पाठान्तरं, व्यक्तं च / 'कोमुइरयणियर-विमलपडिपुण्णसोम्मवयणा' कौमुदी-चन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर :चन्द्रस्तद्वद्विमलं प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा / 'सिंगाराऽगारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिव-स्थानमिव चारु:-शोभनो वेषो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्डनभूषणाऽऽटोपस्तत्प्रधानः आकार :- संस्थानं चारुश्च वेषो यस्याः सा तथा / 'संगय-गय-हसिय-भणिय-विहिय-विलास-सललिय-संलाव-निउणजुत्तोवयारकुसला' सङ्गता-उचिता गत-हसित-भणित-विहित-विलासा यस्याः सा तथा, तत्र विहितं-चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ता:- सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, क्वचिदिदमन्यथा दृश्यते- 'सुंदर-थणजघण-वयण-कर-चरण-नयण-लावण्ण-विलासकलिया' व्यक्तमेव, नवरं जघनंपूर्वकटीभागः, लावण्यम्-आकारस्य स्पृहणीयता, विलासः-स्त्रीणां चेष्टाविशेषः, आह चपासादीया, दरिसणिज्जा अभिरूवा पडिरूवा कूणिएणं रणा सद्धि अणुरत्ता अविरत्ता इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पच्चणुब्भवमाणी विहरति // 15 // 1. ०वलीयवलीय० खं. / ०वलीय० B // २.०वलीको- B खं.। 'रेखात्रयोपेत: बलिको बलवान् मध्यो मध्यभागो' राज. वृ. 119 / 'बलितो बलवान् मध्यो मध्यभागो' इति ज्ञाता. वृ.पत्र 16 / / 3. ०वलो० Bखं.॥ 4. कोमुइयर० खं.॥ 5. खं. / रण्णा भंभसारपुत्तेणं सद्धि-मु. N / भिभि०VI