________________ 14 श्री औपपातिकसूत्रम् क्वचित् ‘णाणाविह-गुच्छ -गुम्म-मंडवग-रम्मसोहिए'त्ति तत्र गुच्छा-वृन्ताक्यादयो गुल्मानवमालिकादयो मण्डपका-लतामण्डपादयः। 'रम्मे'त्ति क्वचिन्न दृश्यते / 'विचित्त-सुहकेउभूए' विचित्रान् शुभान् केतून्-ध्वजान् भूत:-प्राप्तः / 'विचित्त-सुह-सेउबहुले'त्ति पाठान्तरं, तत्र विचित्राः शुभा: सेतवः-पालिबन्धा यत्र केतुबहुलश्च य: स तथा / 'वावीपुक्खरिणि-दीहियासु य सुनिवेसिय-रम्म-जालहरए' वापीषु-चतुरस्रासु, पुष्करिणीषुवृत्तासु पुष्करवतीषु वा, दीर्घिकासु च-ऋजुसारणीषु सुष्ठ निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा // 6 // ___7 - पिंडिम-णीहारिमं सुगंधिं सुह-सुरभि-मणहरं च महता गंधद्धणिं मुयंता णाणाविहगुच्छगुम्ममंडवकघरक-सुहसेतु-केतु-बहुला अणेगरह-जाणजुग्ग-सिविय-पविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 7 // [7] 'पिंडिमनीहारिमं सुगंधिं सुह-सुरभि-मणहरं च महया गंधद्धणिं मुयंता' पिण्डिमनि रिमां-पुद्गलसमूह रू पां दूरदेशगामिनी च सुगन्धिं च-सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च, महता मोचनप्रकारेण विभक्तिव्यत्ययान्मह ती वा गन्ध एव ध्राणिहे तुत्वात् तृप्तिकारित्वाद् गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम् / एवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउ बहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा,तथा शुभाः सेतवः-मार्गा आलवालपाल्यो वा, केतवः-ध्वजा बहुला-बहवो येषां ते तथा, ततः कर्मधारयः। 'अणेगरहजाणजुग्गसिवियपविमोयणा'अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा / 'सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूव'त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि // 7 // 1. राय.वृत्तौ 7 B संस्कृतछायारूपो पाठ: दृश्यते / 2. पु.प्रे. V राय. वृ. पत्र 6 A 'रम्म' इति पाठो न दृश्यते // 3. B / निहा. मु. / निर्हारिमां - ज्ञाता वृ.७ पाइअसद्दमहण्णवो मध्येऽपि 4. ०न्दिं - सुगन्धिकां B ज्ञाता. व. पत्र 7 // 5. 0 गच्छ० खं. एवमग्रेऽपि /