________________ सूत्र - 2] पूर्णभद्रचैत्यवर्णनम् / [सच्चसेवे] सन्निहियपाडिहेरे जागसहस्सभाग-पडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभदं चेइयं पुण्णभदं चेइयं // 2 // ___3 - से णं पुण्णभद्दे चेइए, एक्कणं महता वणसंडेणं सव्वतो समंता संपरिक्खित्ते // 3 // सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा / 'कालागुरुपवरकुंदुरुक्क-तुरुक्क-धूव-मघमन्त-गन्धुद्धयाभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्धृतः-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुक्कंति चीडा 'तुरुक्कं ति च सिहलकम् / 'सुगन्धवर-गंधगंधिए' सुगन्धा ये वरगन्धा:- प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा / 'गन्धवट्टिभूए' सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पमित्यर्थः। 'नड-नट्टे 'त्यादि, पूर्ववन्नवरमिह भुजगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः, 'मागधा' भट्टा इति / 'बहुजण-जाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकम् / 'बहुजणस्स आहुस्स'त्ति आहोतुः-दातुः, क्वचिदिदं न दृश्यते। 'आहु णिज्जे 'त्ति आहवनीयं-सम्प्रदानभूतम्, ‘पाहुणिज्जे 'त्ति प्रकर्षेण आहवनीयम्, 'अच्चणिज्जे' चन्दन-गन्धादिभिः, 'वन्दणिज्जे' स्तुतिभिः, 'नमंसणिज्जे' प्रणामतः, 'पूयणिज्जे' पुष्पैः, 'सक्कारणिज्जे' वस्त्रैः, 'सम्माणणिज्जे' बहुमानविषयतया / 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पज्जुवासणिज्जे' कल्याणमित्यादिबुद्ध्या विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवतं' दैवः 'चैत्यम्' इष्टदेवताप्रतिमा, 'दिव्वे' दिव्यं प्रधानम्, 'सच्चे' सत्यं सत्यादेशत्वात्, ‘सच्चोवाए' सत्यावपातम्, 'सत्यसेवं' सेवायाः सफलीकरणात् / 'सण्णिहियपाडिहेरे ' विहितदेवताप्रातिहार्यम् / 'जागसहस्सभागपडिच्छए' यागा:-पूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनान्तरे 'जाग-भाग-दाय-सहस्सपडिच्छए' यागाः-पूजाविशेषाः भागाविंशतिभागादयो दाया:-सामान्यदानान्येषां सहस्राणि प्रतीच्छति यत्तत्तथा / 'बहुजणो' इत्यादि सुगम, नवरं 'पुण्णभदं चेइयं पुण्णभदं चेइयं' इति अत्र द्विर्वचनं भक्तिसम्भ्रमविवक्षयेति॥२॥ . [3] 'सव्वओ समन्ता' इति सर्वतः-सर्व्वदिक्षु समन्तात्-विदिक्षु / 1-2. कालागरु० B खं. // 3. पुप्रे. जम्बूद्वीप प्र.पु.वृत्त्यादौ // 4. कृष्ण एव जागसहस्स० इति ज्ञाता.वृ.पत्र 5 // श्री औप. 2