________________ सूत्र -183-184] सिद्धस्वरूपम् 201 183 - ते णं तत्थ सिद्धा भवन्ति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निद्वितट्टा निरयणा नीरया णिम्मला वितिमिरा विसुद्धा सासतमणागतद्धं कालं चिटुंति // 183 // [183] गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, ‘से जे इमे गामागरनगर जाव सन्निवेसेसु मणुया हवंति-सव्वकामविरया जाव अट्ठ कम्मपयडीओ खवइत्ता उप्पि लोयग्गपइठ्ठाणा हवंती 'ति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तद्दर्शयितुमाह-'ते णं तत्थ सिद्धा हवंति 'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत 'रागादिवासनामुक्तं, चित्तमेव निरामयम् / सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते // 1 // ' यच्चापरे मन्यन्ते "गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः / मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः // 1 // " तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा / मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् // १॥''इति तदपाकरणायाह'अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवघना इति, ‘दंसणनाणोवउत्त'त्ति ज्ञानं-साकारं दर्शनम्-अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्ठिय?'त्ति निष्ठितार्थाः-समाप्तसमस्तप्रयोजनाः 'निरेयण'त्ति निरेजनाः-निश्चलाः 'नीरय'त्ति नीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवजिता वा 'वितिमिर 'त्ति विगताज्ञानाः 'विसुद्ध'त्ति कर्मविशुद्धिप्रकर्षमुपगताः ‘सासयमणागयद्धं कालं चिटुंति' शाश्वतीम्अविनश्वरी सिद्धत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति // 183 // 184 - से केणटेणं भंते ! एवं वुच्चइ-ते णं तत्थ सिद्धा भवंति साइया अपज्जवसिया असरीरा जाव सासयमणागयद्धं चिटुंति ? / गोयमा! से जहानामए बीयाणं अग्गिणा दड्डाणं पुणरवि अंकुरोपत्ती न भवति, एवामेव सिद्धाण वि कम्मबीएसु दड्डेसु पुणरवि जम्मुपत्ती न भवति / से तेणद्वेणं 1. कालं चिटुंति - JB खं. नास्ति // 2. द्र. सू. 183 // श्री औप. 26