________________ 200 श्री औपपातिकसूत्रम् कर्मांशान्-भवोपग्राहिकर्मभेदान् क्षपयन्-निर्जरयन् ‘वेयणिज्जाउयनामगोए'त्ति वेदनीयं सातादि आयु:-मनुष्यायुष्कं नाम-मनुष्यगत्यादि गोत्रम्-उच्चैर्गोत्रम् ‘इच्चेते 'त्ति इत्येतान् ‘चत्तारि'त्ति चतुरः 'कम्मसे 'त्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ'त्ति यौगपद्येन निर्जरयतीति / एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं, यदुत "तदसंखेज्जगुणाए सेढीए विरइयं पुरा कम्मं / समए समए खवयं कम्मं सेलेसिकालेणं // 1 // सव्वं खवेइ तं पुण निल्लेवं किंचिदुर्वरिमे समए / किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं // 2 // मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएज्जं / अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं // 3 // संभवओ जिणनामं नराणुपुव्वी य चरिमसमयंमि / सेसा जिणसंताओ दुचरिमसमयंमि निटुंति' // 4 // त्ति, 'सव्वाहिं विप्पजहणाहिति सर्वाभि:-अशेषाभिः विशेषेण-विविधं प्रकर्षतो हानयःत्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागत: 'विप्पजहित्त'त्ति विशेषेण प्रहाय- परित्यज्य 'उज्जूसेढिपडिवन्ने 'त्ति ऋजुः-अवक्रा श्रेणि:-आकाशप्रदेशपतिस्तां ऋजुश्रेणिं प्रतिपन्न:आश्रित: 'अफुसमाणगई 'त्ति अस्पृशन्ती-सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, ‘एगेणं समएणं 'ति, कुत इत्याह-'अविग्गहेणं'ति अविग्रहेण-वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, ‘उड्ढे गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते'त्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति // 182 / / 1. कर्मांशान् - खं. नास्ति / / 2. तदसङ्ख्येयगुणया श्रेण्या विरचितं पुरा कर्म / समये समये क्षपयन् कर्म शैलेशीकालेन // 1 // सर्वं क्षपयति तत्पुनर्निर्लेपं किञ्चिदुपरितने समये / किञ्चिच्च भवति चरमे शैलेश्यां तद्वक्ष्ये // 2 // मनुजगतिजातित्रसबादरं च पर्याप्तं सुभगमादेयम् / अन्यतरवेदनीयं नरायुरुच्चैः यशोनाम // 3 // सम्भवतो जिननाम नरानुपूर्वी च चरमसमये / शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति (निष्ठां यान्ति) // 4 // 3. ०वरिमए स० खं. // 4. चरिमे - खं. // 5. परिघाटनं - J मूले / परिशाटनं - J संशा // 6. परिशाट्य उ 0 खं. // 7. ०गइंति - J / गयंति - खं.॥