________________ 196 श्री औपपातिकसूत्रम् 176 - कायजोगं जुंजमाणे किं ओरालियसरीरकायजोगं जुंजइ ? ओरालियमीसासरीरकायजोगं जुंजइ? वेउव्वियसरीरकायजोगं जुंजइ ? वेउव्वियमीसासरीरकायजोगं जुंजइ ? आहारसरीरकायजोगं जुंजइ ? आहारसरीरमीसाकायजोगं जुजइ ? कम्मगसरीरकायजोगं जुंजइ ? गोयमा ओरालियसरीरकायजोगं जुंजइ ओरालियमीसासरीरकायजोगं पि जुंजइ, णो वेउव्वियसरीरकायजोगं जुंजइ णो वेउव्वियमीसासरीरकायजोगं जुंजइ, नो आहारगसरीरकायजोगं जंजइ नो आहारगमीसासरीरकायजोगं गँजड़, कम्मगसरीरकायजोगं पि जुंजइ / पढमट्ठमेसु समएसु ओरालियसरीरकायजोगं जुंजइ, बीइय-छठ्ठसत्तमेसु समएसु ओरालियमीसासरीरकायजोगं जुंजइ, तइयचउत्थ-पंचमेसु समएसु कम्मगसरीरकायजोगं जुंजइ // 176 // [176] तत्र-'ओरालियसरीरकायजोगं ति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः स चानेकधेति औदारिकशरीरेण विशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निर्वृत्तमित्यौदारिकं, तच्च तच्छरीरं चेति समासस्तस्य काययोग औदारिकशरीरकाययोगः, 'ओरालियमीसंसरीरकायजोगं'ति औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स तथा, स च कार्मणौदारिकयोर्युगपद्व्यापाररूप: औदारिकशरीरिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिक-वैक्रिययोरौदारिका-ऽऽहारकयोर्वा युगपद्व्यापाररूपः औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'वेउव्वियसरीरकायजोगं'ति पूर्ववन्नवरं विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्टकार्यकरणक्षम-पुद्गलनिर्वृत्तमित्यर्थः, अयं च वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देव-नारकाणां च स्यादिति / 'वेउव्वियमिस्ससरीरकायजोगंति वैक्रियं सन्मिश्रं यत्कार्मणादिना तद्वैक्रियमिश्रं तच्च तच्छरीरं चेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, स च वैक्रियकार्मणयोर्युगपद्व्यापाररूप:, स च देव-नारकाणामुत्पत्तिकाले यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्त्यागेनौदारिकं गृह्णतामिति, ‘आहारगससरीरकायजोगं'ति प्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम्, अयं च चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, आहारगमीसरीरकायजोगं'ति आहारकं 1. पु.प्रे. मेहिं -मु. V // 2. ०त्तमौदा० खं. // 3. सरीर० JB नास्ति // 4. विशिष्टान्तरपुद्गलाः प्र० इति मु. टिप्पणे //