________________ सूत्र -120 ] अम्बडपरिव्राजकस्वरूपम् 171 पुण्णपावे आसव-संवर-निज्जर-किरिया-ऽहिगरण-बंध-मोक्खकुसले' आश्रवाःप्राणातिपातादयः संवरा:-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशत: क्षपणं क्रियाःकायिक्यादिकाः अधिकरणानि-खड्गादिनिर्वर्तन-संयोजनानि बन्ध-मोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, ‘असहेज्ज'त्ति अविद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवाऽसुर-नाग-सुवण्ण-जक्खरक्खस-किण्णर-किंपुरिस-गरुल-गंधव्व-महोरगाइएहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे' इति देवा-वैमानिका: असुरनागत्ति-असुरकुमारा नागकुमारा श्चेति भवनपतिविशेषाः सुवण्णत्ति-सद्वर्णा ज्योतिष्का इत्यर्थः, क्वचिद् गरुडेति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्ष-राक्षस-किन्नर-किम्पुरुषाः व्यन्तरभेदाः, गरुडत्तिगरुडचिह्नाः सुवर्णकुमाराः, गन्धर्व-महोरगाश्च व्यन्तराः, 'इणमो निग्गन्थे पावयणे 'त्ति अस्मिन्निर्ग्रन्थे प्रवचने 'निस्संकिय'त्ति निःसन्देह: 'निक्कंखिय'त्ति मुक्तदर्शनान्तरपक्षपात: 'निव्वितिगिच्छे'त्तिं निर्विचिकित्सकः फलं प्रति नि:शङ्कः 'लद्धडे'त्ति लब्धार्थोऽर्थश्रवणतः 'गहियटे'त्ति गृहीतार्थोऽवधारणतः ‘पुच्छियटे'त्ति पृष्टार्थः संशये सति 'अहिगय?'त्ति अधिगतार्थोऽभिगतार्थो वा अर्थावबोधात् ‘विणिच्छियढे'त्ति विनिश्चितार्थः ऐदम्पर्योपलम्भात्, अत एव अट्ठिमिंजपेमाणुरागरत्ते' अस्थीनि च-कीकसानि मिञ्जा च-तन्मध्यवर्ती धातुविशेष: अस्थिमिजास्ताः प्रेमानुरागेण-सार्वज्ञप्रवचनप्रीतिलक्षण-कुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अटे अयं परमटे सेसे अणद्वे'त्ति अयमिति-प्राकृतत्वादिदम् ‘आउसो 'त्ति आयुष्मन्निति पुत्रादेशमन्त्रणं, क्वचित् ‘इणमो निग्गन्थे 'इति दृश्यते, 'सेसे 'त्ति शेषं-धन-धान्य-पुत्र-कलत्र-मित्र-राज्य-कुप्रवचनादिकमिति। 'उसियफलिहे'त्ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परिपुष्टमना इत्यर्थः, इति वृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रित:-अर्गलास्थानादपनीयो/कृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः, उत्सृतो वा अपगतः परिघः-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलित-गृहद्वार इत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य 1. सुवर्णा - J // 2. कित्सुः फ० खं. // 3. खं.। ०पेम्माणु० मु. // 4. मुनी० खं. तुला- राज प्रश्नीय टीका प. 123 A / / 5. ०शयतद्भावदायि० //