________________ 168 श्री औपपातिकसूत्रम् रोगायंका परीसहोवसग्गा फुसंतु त्तिक? एयं पि णं चरिमेहिं उस्सासनीसासेहिं वोसिरामि त्ति कटु संलेहणाजूसणाझुसिता भत्तपाणपडियाइक्खिया पाओवगया कालं अणवकंखमाणा विहरंति। तते णं ते परिव्वाया बहूई भत्ताइं अणसणाए छेदेन्ति, छेदित्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा बंभलोगे कप्पे देवत्ताए उववन्ना / तहिं तेसिं गई० दससागरोवमाइं ठिती पण्णत्ता / परलोगस्स आराहगा सेसं तं चेव // 117 // सम्पर्यङ्क:-पद्मासनं, प्राणातिपातादिव्याख्यापूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-‘इ8'ति वल्लभं 'कंतं 'ति कान्तं काम्यत्वात् ‘पिय'त्ति प्रियं सदा प्रेमविषयत्वात् ‘मणुण्णं 'ति मनोज्ञंसुन्दरमित्यर्थः, 'मणोमं'ति मनसा अम्यते-प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेज्जं 'ति सर्वपदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेर्यं वा कालान्तरनयनात, 'थेज्जं'ति क्वचित्तत्र स्थैर्यम, अस्थिरेऽपि मढैः स्थैर्यसमारोपणात, 'वेसासियं'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'संमयंति सम्मतं तत्कृतकार्याणां सम्मतत्वात् ‘बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्तद्बहुमतम् 'अणुमयं 'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'भंडकरंडगसमाणं 'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा ‘मा णं सीय'मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थः, णङ्कारो वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा ‘मा णं'ति मा एतच्छरीरमिति व्याख्येयं, ‘मा णं वाल'त्ति व्याला:-श्वापदभुजगाः 'रोगायंक'त्ति रोगा:कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीषहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः 'फुसंतु' स्पृशन्तु 'तिकट्ट'त्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः, 'एयपि णं'ति एतदपि शरीरं 'वोसिरामित्ति कट्ट' इत्यत्र तिकट्टत्तिइतिकृत्वा इति विसर्जनं विधाय विहरन्तीति योगः, संलेहनाझूसिय'त्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झूसिय'त्ति जुष्टा वा सेविता ये ते तथा 'संलेहणझूसणाझूसिय'त्ति क्वचित् तत्र संलेखनायां कषायशरीरकृशीकरणे या जोषणा-प्रीतिः सेवा वा "जुषी प्रीतिसेवनयो" रिति वचनात् सा तथा तया तां वा ये जुष्टाः-सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति-झूषिताः क्षीण ये ते तथा, 'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपाना: 'पाओवगया' पादपवदुपगताः पादपोपगता वृक्षवन्निष्पन्दतयाऽवस्थिता इत्यर्थः, 'कालं 1. द्र.सूत्र. 89 / / 2. JB खं. / ०नोऽमं-मु. // 3. माशब्दा निषेधार्थाः-खं. // 4. स्पृशं० खं. / 5. वा-खं. नास्ति / / 6. B खं. / पादपवदुपगता:- मु. नास्ति /