________________ सूत्र -101-108 ] परिव्राजकसामाचारी 163 / [105] 'अयपायाणि वे'त्यादिसूत्रे यावत्करणात् त्रपुक[ताम्र]-सीसक रजत-जातरूपकाच वेडन्तिय-वृत्तलोह-कंसलोह-हारपुटकरीतिका-मणि-शङ्ख-दन्त-चर्म-चेल-शैल-शब्दविशेषितानि पात्राणि दृश्यानि, 'अन्नयराणि वा तहप्पगाराणि महद्धणमोल्लाई' इति च दृश्यं तत्रायोलोहं रजतं-रूप्यं जातरूपं-सुवर्ण काचः-पाषाणविकारः वेडंतियत्ति-रूढिगम्यं वृत्तलोहंत्रिकुटीति यदुच्यते कांस्यलोहं-कांस्यमेव हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतद्व्यतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तथा 'अलाबुपाएणं'ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः।। 105 // 106 - तेसि णं परिव्वायगाणं णो कप्पइ अयबंधणाणि वा जीव सेलबंधणाणि वा अण्णयराई वा तहप्पगाराइं महद्धणमोल्लाइं धारित्तए // 106 // [106] तथा 'अयबन्धणाणि वे'त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि, 'अण्णयराइं तहप्पगाराइं महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति // 106 // ___107 - तेसि णं परिव्वायाणं नो कप्पइ नाणाविहवन्नरागरत्ताई वत्थाई धारित्तए, नन्नत्थ एगाए धाउरत्ताए // 107 // ___ [107] ‘णण्णत्थ एगाए धाउरत्ताए'त्ति इह युगलिकयेति शेषो दृश्यः // 107 / / - 108 - तेसि णं परिव्वायाणं नो कप्पइ हारं वा, अद्धहारं वा, एगावलिं वा, मुत्तावलिं वा, कणगावलिं वा, रयणावलिं वा, मुरविं वा, कंठमुरविं वा, पालंबं वा, तिसरयं वा, कडिसुत्तं वा, दसमुद्दियाणंतयं वा, कडगाणि वा तुडिगाणि वा, अंगयाणि वा केऊराणि वा कुंडलाणि वा चूलामणिं वा मउडं वा पिणिद्धित्तए नन्नत्थ एगेणं तंबिएणं पवित्तएणं // 108 // __ [108] हारादीनि प्राग्वत्, नवरं 'दसमुद्दियाणंतयंति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएणं'त्ति पवित्रकम्-अङ्गुलीयकम् // 108 / / 1. ०कारी B // 2. तहप्पगाराई - J नास्ति / / ३.देसिमु०B || Aद्र. सू. 105 //