________________ 156 श्री औपपातिकसूत्रम् लोण-महु-मज्ज-मंस-परिचत्त-कयाहाराओ'त्ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि 3 येन स एवंविधः कृतः-अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तामेव पइसेज्जं नाइक्कमंति' या निधुवनार्थमाश्रीयते तामेव पतिशय्यां-भर्तृशयनं नातिक्रामन्ति-उपपतिना सह नाऽऽश्रयन्तीति 8 // 92 // 93- से जे इमे गामागर-नगरजीव सन्निवेसेसु मणुया भवंति तं जहा-दगबीतिया, दगततिया, दगसत्तमा, दगएक्कारसमा, गोतम-गोव्वइय-गिहिधम्म-धम्मचिंतक-अविरुद्ध-विरुद्ध-वुड्ड-सावगप्पभितयो / तेसि णं मणुस्साणं नो कप्पति इमाओ नव रसविगतीओ आहारेत्तए, तं जहाखीरं दधिं नवणीतं सप्पिं तेल्लं फाणियं महुँ मज्जं मंसं नन्नत्थ एगाए सरिसवविगईए / ते णं मणुस्सा अप्पिच्छा जाव अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालेंति पालेत्ता कालमासे०. वाणमंतरेहिं०चउरासीति वाससहस्साइं ठिती पन्नत्ता / सेसं तं चेव जाव आराहगा ? नो इणढे समढे // 93 // [93] 'दगबीय'त्ति ओदनद्रव्यापेक्षया दकम्-उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'दगतइय'त्ति ओदनादिद्रव्यद्वयापेक्षया दकम्-उदकं तृतीयं येषां ते दकतृतीया: 'दगसत्तम'त्ति ओदनादीनि षट् द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएक्कारसमा एतदपीति, 'गोतमगोव्वइयगिहिधम्मधम्मचिंतकअविरुद्धविरुद्धवुड्ड-सावगप्पभियओ'त्ति गौतमो-हस्वो बलीवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, 'गोव्वइय'त्ति-गोव्रतं येषामस्ति ते गोव्रतिकाः, ते हि गोषु ग्रामान्निर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिबन्तीषु पिबन्ति आयान्तीष्वायान्ति शयानासु च शेरते इति, उक्तं च " गावीहि समं निग्गमपवेससयणासणाइ पकरेंति / भुंजंति जहा गावी तिरिक्खवासं विहाविंता // 1 // " 'गृहिधर्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवाऽतिथिदानादिरूपगृहस्थधर्मानुगताः 1. खं. / तमेव-मु. // A द्र. सू. 90 / / 2. अविरुद्धबुद्धसावगा तेरि - पु. प्रे.. / / 3. आरंभपरिग्गहेणं - पु.प्रे. // 4. द्र.सू.९१ // 5. द्र. सू. 90 // 6. गोव० खं. / एवमग्रेऽपि / / 7. गोत० खं. / एवमग्रेऽपि / द्रष्टव्यम् अंगुत्तरनिकाय-३ पृ. 276 मध्ये // 8. द्रष्टव्यं मज्झिमनिकाये - 3 पृ. 387, ललितविस्तरे पृ. 287 / / 9. गोभिः समं निर्गमप्रवेशशयनाशनादि प्रकुर्वन्ति / भुञ्जते यथा गावस्तिर्यग्वासं विभावयन्तः // 1 //