________________ सूत्र -68] कूणिकस्य जयजयकारादिः 129 ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, 'अठ्ठसइयाहिं' 'अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइयाओ बहुलत्वमर्थतः सइयाओ अट्ठसइयाओ ताहिं 'अपुनरुक्ताभि'रिति व्यक्तं, 'वग्गूहिति वाग्भिः- गीभिः, एकाथिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसएहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः, 'अणवरयं' 'अभिनंदंता य' अभिनन्दयन्तश्च-राजानं समृद्धिमन्तमाचेक्षाणाः 'अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय णंदा !' जय जयेति सम्भ्रमे द्विर्वचनं नन्दति-समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय जय त्वं जगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा !' प्राग्वत्, नवरं भद्रः- कल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते' प्राग्वदेव, नवरं भद्रं ते तव भवत्विति शेषः, 'अजिय'मित्यादीन्याशंसनानि व्यक्तानि / भरहो इव मणुयाणं, बहूई वासाई, बहूई वाससयाई, बहुइं वाससहस्साई, बहुइं वाससयसहस्साइं अणहसमग्गो य हट्टतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए नयरीए अन्नेसिं च बहूणं गामागर-नगर-खेड-कब्बडदोणमुह-मडंब-पट्टणा-ऽऽसम-संवाह-सन्निवेसाणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं महयरत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुदिंगपडुप्पवादितरवेणं विपुलाई भोगभोगाइं भुंजमाणे विहराहित्ति कट्ट जय जय सदं पउंजंति // 68 // 'इंदो इवेत्यादि विहराहि'त्ति एतदन्तं वाचनाद्वयेऽपि व्यक्तं, नवरम्'अणहसमग्गो 'त्ति अनघो-निर्दोषः समग्रः-समग्रपरिवारः 'हट्टतुढे 'त्ति अतीव तुष्टः ‘परमाउं पालयाहि'त्ति तत्कालापेक्षया यदुत्कृष्टमायुस्तत् परमायुः ‘गामागर-नगर-खेडकब्बडमडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-संनिवेसाणं' ग्रामो-जनपदाध्यासितः आकरोलवणाद्युत्पत्तिभूमिः नगरम्-अविद्यमानकरं खेटं-धूलीप्राकारं कर्बर्ट-कुनगरं मडम्बम्अविद्यमानासन्नसंनिवेशान्तरं द्रोणमुखं-जलपथ-स्थलपथोपेतं पत्तनं-जलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रत्नभूमिरित्यन्ये, आश्रमः-तापसाद्यावासः संवाह:-पर्वतनितम्बादिदुर्गे 1. अद्धo B / / 2. अर्ध० BJ || 3. अर्धपातिका BJ || 4. सइ बहुफलत्व० J मु. / / ५.०चक्षमाणाः- BJ || 6. खं.। जय त्वं-मु. J / 7. ति कटु अभिनंदंति य अभिथुणंति य तए णं ।-पु. प्रे. / / 8. B खं. / ०सन्ननि० मु.।। श्री औप. 17