________________ 112 श्री औपपातिकसूत्रम् च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपाग-सहस्सपागेहिं'ति शतकृत्वो यत्पक्वमपरापरौषधीरसेन सह शतेन वा कार्षापणानां यत्पक्वं तच्छतपाकमेवमितरदपि, 'सुगंधतेल्लमाईएहिं'ति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः किम्भूतैरित्याह'पीणणिज्जेहिं'ति रसरुधिरादिधातुसमताकारिभिः 'दप्पणिज्जेहिं ति दर्पणीयैः-बलकरैः 'मयणिज्जेहिंति मदनीयैः-मन्मथवर्द्धनैः 'विहणिज्जेहिंति बृंहणीयैः-मांसोपचयकारिभिः 'सव्विदियगायपल्हायणिज्जेहिंति प्रतीतम्, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मंसित्ति तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते तत्तैलचर्म, तत्र ‘संवाहिएत्ति' योगः, 'पडिपुण्ण-पाणि-पाय-सुकुमाल-कोमलतलेहिं'ति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमलानि-अत्यन्तकोमलानि तलानि-अधोभागा येषां ते तथा तैः, 'छएहिति छेकैःअवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहि'ति कार्याणामविलम्बितकारिभिः 'पत्तट्रेहिंति प्राप्ताङ्कः-लब्धोपदेशैरित्यर्थः 'कुसलेहिति सम्बाधनाकर्मणि साधुभिः 'मेहावीहिंति मेधाविभिः-अपूर्वविज्ञान-ग्रहणशक्तिकैः ‘निउणसिप्पोवगएहिति निपुणानि-सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः, 'अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहि ति अभ्यङ्गनमर्दनोद्वलनानां प्रतीतार्थानां करणे ये गुणा:विशेषास्तेषु निर्माता ये ते तथा तैः / 'अट्ठिसुहाए'त्ति अस्थनां सुखहेतुत्वादस्थिसुखा तया, एवं रोमसुहाए, 'चउव्विहाए, संवाहणाए संवाहिए समाणे अवगय-खेयपरिस्समे अट्टणसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणंघरं अणुपविसइ, अणुपविसित्ता, समत्तजालाउलाभिरामे विचित्त-मणि-रयण-कुट्टिमतले रमणिज्जे पहाणमंडवंसि णाणामणि-रयण-भत्तिचित्तंसिं पहाणपीढंसि सुहनिसण्णे सुहोदएहिं, गंधोदएहिं, पुप्फोदएहिं, सुद्धोदएहिं पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहि 1. न च वाच्यं 'प्राणितुर्याङ्गाणा'मिति द्वन्द्वैकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकप्राणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगर्भो द्वन्द्वः तेषां पाणिपादानामिति स्याद् आलोच्यमेतदविरोधेन सुधिया इति मु.टि.॥ 2. सुकुमालको० खं. // 3. चउव्विहाए सुहपरिकम्मणाए संवाहिए-पु. प्रे. / कल्पसूत्रे च सू.६२ // 4. // समुत्त० कल्पसूत्रे मु. पु.प्रे / / समंत० भग. वृ. //