________________ 108 श्री औपपातिकसूत्रम् सन्नाहं यत्तद्वार्मिक सन्नद्धं बद्धं कवचं-सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकवचिकम्, अथवा वर्मितादयः शब्दा एकार्था एव सन्नद्धताप्रकर्षख्यापनार्थाः भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, 'वक्षःकक्ष' इति पाठान्तरं, तथा बद्धं ग्रैवेयक-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति पाठान्तरं, ततो वर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजुत्तं 'ति प्रतीतम्, “अहिय-अहियतेयजुत्तं" ति क्वचिदृश्यते, तत्राधिकाधिकेन-अत्यर्थमधिकेन अहितानां वा शत्रूणामहितेन-अपथ्येन तेजसाप्रभावेण युक्तं यत्तत्तथा तत् / 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते ये वरकर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, ‘पलंबउच्चूलमयरकयंधयारं' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैःभ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत् वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्कर-कृतान्धकारं च चित्तपरिच्छेयपच्छयं पहरणावरणभरिय-जुद्धसज्जं सच्छत्तं सज्झयं सघंटे सपडागं पंचामेलयपरिमंडियाभिरामं ओसारियजमलजुयलघंटे विज्जुपिणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं गुलुगुलुगुलंतं मण-पवणजइणवेगं भीमं संगामियाओझं आभिसेक्कं हत्थिरयणं पडिकप्पेति पडिकप्पेत्ता, हयगय-रह-पवर-जोह-कलियं चाउरंगिणिं सेन्नं सण्णाहेति, सण्णाहेत्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता करयल जाव कटु बलवाउस्स तमाणत्तियं पच्चप्पिणति॥ 57 // यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छदं' चित्रः परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरणभरियजुद्ध सज्ज' प्रहरणावरणानाम्-आयुधकवचानां भृतं यत् युद्धसज्जं च-सङ्ग्रामप्रगुणं यत्तत्तथा तत् 1. धार्मिता० खं. / धर्मिता०मु. / / 2. खं. / ०ते वरे ये कर्ण०मुं.। ०ते ये कर्ण० J // 3. ०उकुल० खं. / उजल० BJ || 4 द्रष्टव्यं भगवतीसू. पृ. 317 B // 5. चंकमंतं मेहमिव गुलगुलुगुलेंतं पु प्रे. / / 'मेहमिव गुलगुलंतं (भगवतीसूत्रवृत्ति इति पत्र 318) 6. पु. प्रे. / संगामियाओज्ज-मु. / संगामियं अओझं पु.प्रे. / / 'भगवत्यां (7/175) "संगामियं अओझं' इति पाठो लभ्यते / अर्थसमीक्षया एष पाठः सम्यक प्रतिभाति" इति / पृ. 37 टि. 13 //