________________ सूत्र - 52] समवसरणं प्रति गमनम् युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि 'गिल्लित्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीवेति ‘थिल्लित्ति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु थिल्लीओत्ति अभिधीयन्ते 'पवहण'त्ति प्रवहणानि वेगसरादीनि 'सीय'त्ति शिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव ‘पादविहारचारेणं'ति पादविहाररूपो यश्चार:-सञ्चरणं स तथा तेन, 'पुरिसवागुर'त्ति वागुरा-मृगबन्धनं पुरुषा वागुरेव सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गावरिंग गुम्मागुम्मिति क्वचिद् दृश्यते, तत्र वर्गः-समानजातीयवृन्दं वर्गेण वर्गेण च भूत्वा वर्गावर्गि अत एवेहाऽव्ययीभावसमासः, गुम्मागुम्मिति-गुल्म-वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि, 'महय'त्ति महता, रवेणेति योगः, 'उक्किट्ठि-सीहनाय-बोलकलकलरवेणं'ति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवः स तथा तेन, ‘पक्खुब्भियमहासमुद्दरवभूयं पिव करेमाण'त्ति प्रक्षुभितमहाजलधे?षप्राप्तमिव-तन्मयमिव नगरं विदधाना इत्यर्थः, क्वचिदिदं . पदचतुष्टयं दृश्यते-'पायदद्दरेणं भूमि कंपेमाण'त्ति त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्ति पादपातप्रतिरवेणाऽऽकाशं स्फोटयन्त इव, ‘एगदिसिंति एकया दिशा पूर्वोक्तलक्षणया, ‘एगाभिमुह'त्ति एकं भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः 'तित्थगराइसेसे 'त्ति तीर्थकरातिशेषान् जिनातिशयान्, 'जाणवाहणाई ठावइंति'त्ति यानानि-शकटादीनि वाहनानि-गवादीनि स्थापयन्ति-स्थिरीकुर्वन्ति, क्वचिद् विट्ठब्भंती'ति दृश्यते, तत्र विशेषेण स्तम्भयन्तिनिश्चलीकुर्वन्ति / पुष्फतंबोलादीयं आउहमादीयं सच्चित्तालंकारं पाहणाओ य विसज्जेंति विसज्जित्ता एगसाडियं उत्तरासंगं करेंति आयंता चोक्खा परमसूइभूता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति तं जहाजाणवाहणविटुंभणयाए जाणवाहणपच्चोरुभणयाए एगसाडिएणं उत्तरासंगकरणेणं चक्खुफासे अंजलिप्पग्गहेण मणसो एगत्तीभावकरणेणं -जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता 1. अधुना गोलि गन्टुरजिला-इति जैन आगम साहित्य में भारतीय समाज पृ.१८२॥ 2. अन्नप० J // 3. J मु. / सीह० खं. // 4. पूर्वोत्तरल० खं.J // 5. ठइइंति-JB || 6. विठं० खं. J //